________________
:267
Vadaj
Nihnavavāda thankara), came back, and declared that the gaccha led by the preceptor was right, the opponent was a liar, and she further said that, he was the Seventh Nihnava. “Whence could this wretched demons have this much capacity to go to the Tirthankara ? Gostha Mahila replied. As a result of this, he was expelled from the gaccha. 2546-2547-2548-2549.
टीका-२५१-२५२-२५३-२५४ चतसृणामप्यासामक्षरार्थः सुगम एव भावार्थस्तु कथानकशेषादवसेयः तच्चेदम्-एवं युक्तिभिः प्रज्ञाप्यमानो यावदसौ न किमपि श्रद्धत्ते, तावत् पुष्पमित्राचार्यैरन्यगच्छगतबहुश्रुतस्थविराणामन्तिके नीतः। ततस्तैरप्युक्तोऽसौ यादृशं सूरयः प्ररूपयन्ति, आर्यरक्षितसूरिभिरपि तादृशमेव प्ररूपितम् , न हीनाधिकम् । ततो गोष्ठामाहिलेनोक्तम् “किं यूवमृषयो जानीथ ? तीर्थकरैस्तादृशमेव प्ररूपितम् यादृशमहं प्ररूपयामि । ततः स्थविरैरुक्तम्-मिथ्याभिनिविष्टो मा कार्षीस्तीर्थकराशातनाम्, न किमपि त्वं जानासि । ततः सर्वविप्रतिपन्ने तस्मिन् सर्वैरपि तैः संघसमवायः कृतः । सर्वेणापि च संघेन देवताहानार्थ कायोत्सर्गो विहितः। ततो भद्रिका काचित् देवता समागता । सा वदति संदिशत, किं करोमि ? । ततः संघः प्रस्तुतमर्थ जानबपि सर्वजनमत्ययनिमित्वं ब्रवीति-महाविदेहे गत्वा तीर्थकरमापृच्छख,-कि दुर्बलिकापुष्पमित्रप्रमुखः यद् भणति तत् सत्यम् , उत यद् गोष्ठामाहिलो वदति ? । ततस्तया प्रोक्तम्-मम महाविदेहे गमनागमनं कुर्वत्याः प्रत्यूहप्रतिघातार्थमनुग्रहं कृत्वा कार्योत्सर्ग कुरुत, येनाहं गच्छामि । ततस्तथैव कृतं संघेन । गता च सा । पृष्ट्वा च भगवन्तं प्रत्यागता कथयति यदुत-तीर्थकरः समादिशति-"दुर्बलिकापुष्पमित्रपुरस्सरः संघः सम्यग्वादी, गोष्ठामाहिलस्तु मिथ्यावादी, सप्तमश्चायं निहवः” इति । तदेतत् श्रुत्वा गोष्ठामाहिलो ब्रवीति-नन्वल्पर्धिकेयं वराकी, का नामैतस्याः कडपूतनायास्तीर्थकरान्तिके गमनशक्तिः ? इति । एवमपि यावदसौ न किञ्चिद् मन्यते तावत् संघेनोद्धाह्य बाह्यः कृतः । अनालोचितप्रतिक्रान्तश्च कालं गतः ॥२५४६॥ २५४७॥२५४८॥२५४९॥
6. Katapatanā is a kind of demon. It is believed that a Ksatriya not performing his duties well, is born after his death as such a goblin. It is a kind of preta or inhabitant of lower regions.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org