________________
Vada] Nihnavavada
: 155: 152. Laksanabhedadeva sannānyam yadanekavisayamitis
Tadagrihitvā na visesa-jhānāni tena. samaye. (2447) 153. Tatah sāmānyagrahananantaramihitamavaiti tadbhedam |
Iti samanyavisesapeksa yavadantimo bhedah. (2448)]
Trans. 152-153. Since sāmānya or general apprehension (constitutes) a number of subjects on account of various distinctive characteristics, (there is) no (possibility of) visesa jha. ņas or definite cognitions (being attained) at the same time without attaining it. Then, definite apprehension attained after general apprehension, recognizes their distinction. Such an inter-dependence of sämānya and višesa continues till final distinction. (2447-2448) ___टीका-१५२-१५३ तेन कारणेन समय एकस्मिन् काले बहूनि विशेषज्ञानानि न भवन्ति । कुतः ? इत्याह-लक्षणं शीतोष्णादिविशेषणस्वरूपं तस्य परस्परं मेदा भिन्नत्वाद् न तद्ग्राहकाणि ज्ञानानि समकं भवन्ति, यस्माचानेकविषयमनेकाधारं सामान्यं, इत्यतस्तदगृहीत्वा न विशेषज्ञानसंभूतिरस्तीति, अतोऽपि न युगपद् विशेषज्ञानानि । इदमुक्तं भवति-पूर्व वेदनासामान्यं गृहीत्वा तत ईहां प्रविश्य "शीतेयं पादयोवेदना" इति वेदनाविशेषं निश्चिनोति । शिरस्यपि प्रथम वेदनासामान्यं गृहीत्वा तत ईहां प्रविश्य " उष्णेयमिह वेदना" इत्यध्यवस्यति । न हि घटविशेषज्ञानादनन्तरमेव पटाश्रयसामान्यरूपेऽगृहीते पटविशेषज्ञानमुपजायते " उग्गहो ईह अवाओ य” इत्यमुनैव क्रमेण घटादिविशेषज्ञानोत्पत्यमिधानात् । एवं च सति विशेषज्ञानादनन्तरमपि विशेषज्ञानं नोत्पद्यते, आस्तां पुनः समकालम् , सामान्यस्यानेकविशेषाश्रयत्वात् । तच्च पूर्वमगृहीत्वा विशेषज्ञानस्या. प्रसवादिति ।
यतथैवं सामान्येऽगृहीते नास्ति विशेषज्ञानम् , 'तो ति' ततः सामान्यग्रहणान्तरमीहितं तद्भेदं सामान्यभेदं घटत्वादिसामान्याश्रयं घटादिविशेषमित्यर्थः, अवैति-"घटादिरेवाऽयम्" इत्येव निश्चिनोतीत्यर्थः । तत उत्तरभेदापेक्षया घट एव सामान्यम् । तस्मिश्च गृहीते ईहित्वा “धातुजोऽयम्, न मातः" इत्येवं निश्चिनोति । ततो धातुजोऽप्युत्तरभेदापेक्षया सामान्यम् । तस्मिंश्च गृहीते ईहित्वा 'ताम्रोऽयं न राजतादिः" इतीत्थं निश्चिनोतीति । एवं सामान्य-विशेषापेक्षा वाषद् कर्तव्या यावदन्तिमो भेदः स कश्चित् यदनन्तरमीहा न प्रवर्तते । ततवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org