SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Vada ] Nihnavavāda : 141: स्पर्शनेन्द्रियदेशैर्युगपत् संबध्यते, अथ च क्षिप्रचारि शीघ्रसंचरणशीलं तदिति कृत्वा समकमिव युगपदिव "सर्वत्र संबद्धं लक्ष्यते" इति शेषः। दृष्टान्तमाह"समयं वेत्यादि"। "समयं वा" इत्येतदन्तरं योजितमप्याच्या पुनरपीह योज्यते । तत्र वाशब्दो यथार्थे । यथाशब्दश्च दृष्टान्तोप-यासार्थे । यथा शुष्क शष्कुलिकादशने सर्वेषामपि शष्कुलिकागतरूप-रस-गन्ध-स्पर्श-शब्दानामुपलब्धिः सर्वोपलब्धिरसमकं प्रवृत्तापि समकं लक्ष्यते, तथाऽत्रापि मनः-शिरः-पाक्षदिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि युगपत् संवध्यमानं लक्ष्यत इत्यर्थः । इदमत्र हृदयम्-इह दीर्घा शुष्कां च शष्कुलिकां कस्यचिद् भक्षयवस्तद्रूपं चक्षुषा वीक्षमाणस्य रूपज्ञानमुत्पद्यते, तद्गन्धं च घ्राणेनाऽऽजिघ्रतो गन्धज्ञानम्, तद्रसं च रसनयाऽऽखादयतो रसज्ञानम् , तत्स्पर्श च स्पर्शनेन वेदयतः स्पर्शज्ञानम् , चर्चणोत्थं तच्छब्दं च श्रृणवतः शब्दज्ञानमुपजायते। एतानि च पश्चापि ज्ञानानि क्रमेणैव जायन्ते, अन्यथा सांकर्यादिदोषपसङ्गात्, मत्यादिज्ञानोपयोगकाले चावध्याधुपयोगस्यापि प्राप्तेः, एकं च घटादिकमर्थ विकल्पयतोज्जन्तानामपि घटाद्यर्थविकल्पानां प्रवृत्तिप्रसङ्गाच । न चैतदस्ति । ततःक्रमेण जायमानान्यप्येतानि ज्ञानानि प्रतिपत्ता "युगपदुत्पद्यन्ते" इति मन्यते, समपाऽऽबलिकादिकालविभागस्य सूक्ष्मत्वात् । एवमिहापि शिरः पादादिमिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि मनः प्रतिपत्ता युगपत् संवध्यमानमध्यवस्यति । न तु तत्त्वतोऽसौ मनसः स्वभावः, तथा चोक्तम्"-युगपज्ज्ञानानुत्पचिर्मनसो लिङ्गम्" इति । यदि चोक्तन्यायेन सर्वेन्द्रियद्वारेणोत्पद्यमान उफ्लम्मे क्रमेण संचरतो मनसः संचारो दुर्लक्षः, तर्हि कथमेकस्यैद स्पर्शनेन्द्रियमात्रस्य शीतवेदनोपयोगादुष्णवेदनोपयोगरूपउपयोगान्तरे जन्ये तत्संचारसुलक्षास्यात् , अलक्ष्यमाणे च तत्क्रमसंचारे शीतोष्णक्रियाद्वयोपयोगविषयौ युगपदध्यवसायौ भवतः ? इति ॥२४३४॥ न्याख्याताथैव ॥२४३५॥ D. C. Mind does not come in contact with all sense-organs at the same time. So, it is not possible for it to come in contact with the senses of touch at feet and head simultaneously. Since the movement of mind is extremely quick, mind appears as if it is connected with all the indriyas simultaneously. As for example, a person eating a sesamum cake, perceives form by morns Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008005
Book TitleShraman Bhagvana Mahavira Part 4
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages373
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy