________________
८४
[मूल]
गौरा भाति च यस्य गौरवगुणैर्विश्वम्भरेवाऽपरा, रत्नालङ्कृतिसोज्ज्वलाखिलपरस्त्रीसोदरस्य प्रिया । शृङ्गारादिरसेन कान्तसुभगा सङ्ग्रामसिंहस्य तत्प्रोक्ते बुद्धिनिधौ प्रकीर्णकतरङ्गोऽयं चतुर्थोऽभवत् ॥४१५॥(४.१५०)
(अन्वयः) यस्य च अखिलपरस्त्रीसोदरस्य रत्नालङ्कृतिसोज्ज्वला गौरवगुणैः अपरा विश्वम्भरा इव शृङ्गारादिरसेन कान्तसुभगा प्रिया गौरा भाति (तस्य) सङ्ग्रामसिंहस्य प्रोक्ते बुद्धिनिधौ अयं प्रकीर्णकतरङ्गः अभवत्।
(अर्थः)
बुद्धिसागरः
परस्त्री के भाई समान जिसकी रत्न और अलङ्कार से उज्ज्वल, गौरवगुण से दूसरी पृथ्वी के समान, शृङ्गारादि रसों से कान्त और सुभग गौरा नामक पत्नी है उस सङ्ग्रामसिंह विरचित बुद्धिसागर ग्रंथ में प्रकीर्णक नामक चौथा तरंग पूर्ण हुआ।
॥इति श्री ओसवंशावतंसेन सर्वजीवदयापरेण श्रीसङ्ग्रामसिंहेन विरचिते बुद्धिसागरे चतुर्थः प्रकीर्णकतरङ्गः॥