________________
चतुर्थः प्रकीर्णकतरङ्गः
अथ वैराग्यम् [मूल] दृढं बद्धाः पाशैर्विविधकृतकर्मप्रणिहितै
न जानन्तस्तत्त्वं किमपि परमानन्दविषयम्। धनं पुत्राः स्त्री चेत्यहतममतामन्दमतयो
भवाम्भोधौ मज्जन्त्यहह विहताः प्राणिन इमे॥३६९॥(४.१०४) (शिखरिणी) (अन्वयः) विविधकृतकर्मप्रणिहितैः पाशैः दृढं बद्धाः परमानन्दविषयं किम् अपि तत्त्वं न जानन्तः इमे विहताः
प्राणिनः धनं पुत्राः स्त्री चेत्यहतममतामन्दमतयो अहह भवाम्भोधौ मज्जन्ति। (अर्थः) विविध प्रकार के किए हुए संचित कर्म के पाश के द्वारा मजबूत बाँधे गए है ऐसे, परम आनंद के
विषय में कुछ भी तत्त्व न जानते हुए यह सब विशेष रूप से मारे गए प्राणि अरेरे!(खेद वाचक) भव
रूपी सागर में डुबते हैं। [मल एके च रोगैः परिभूतदेहा विहाय बन्धून् यमसद्म यान्ति।
वाञ्छति चान्ये स्थिरतां पुनर्यज्जगत्यहो मोहबलं महीयः॥३७०॥(४.१०५) (उपजातिः) (अन्वयः) एके रोगैः परिभूतदेहा बन्धून् विहाय यमसद्म यान्ति, पुनः अन्ये च यज्जगति स्थिरतां वाञ्छति अहो
महीयः मोहबलम्। (अर्थः) रोगों के द्वारा परिभूत देह वाले कोई बन्धू बांधवों को छोडकर यमलोक जाते हैं, और (कुछ) इस
जगत में रहने की इच्छा करते हैं अहो मोहरूपी बल कितना बलवान है। मल] रक्तमांसविलिप्तानि चर्मणा वेष्टितान्यपि।
अस्थीनि स्नायुनद्धानि शरीरमिह कथ्यते॥३७१॥(४.१०६) (अन्वयः) रक्तमांसविलिप्तानि अपि चर्मणा वेष्टितानि स्नायुनद्धानि अस्थीनि इह शरीरं कथ्यते। (अर्थः) रक्त,मांस से लेपन किया हुआ, त्वचा से आवृत, हड्डी और स्नायु से बंधा हुआ ऐसा यह शरीर
कहा जाता है। [मूल] तत्प्रत्यङ्गं मलाकीर्णमतिदुर्गन्धिमज्जडम्।
व्याधिशोकबहुक्लेशं ममतामन्दिरं महत्॥३७२॥(४.१०७) (अन्वयः) तत् प्रत्यङ्गं मलाकीर्णम्, अतिदुर्गन्धिमत्, जडम्, व्याधिशोकबहुक्लेशम्, महत् ममतामन्दिरम्। (अर्थः) वह(शरीर) प्रति अंग में मल से भरा हुआ, अतिशय दुर्गंधि से युक्त, जड, व्याधि, शोक, बहुत क्लेश
से युक्त ऐसा बडा ममता का मंदिर है। [मूल] गर्भे जरायुनिर्बन्धसङ्कटे पतितस्य वै।
दुःखं सजायते जन्तोर्दुःसहं दशमासनम्॥३७३॥(४.१०८) (अन्वयः) गर्भे जरायुनिर्बन्धसङ्कटे पतितस्य जन्तोः दशमासनं दुःसहं दुःखं सञ्जायते।