________________
३०
विश्वे विजयमानस्य जिनशासनस्य चतुर्णामपि सम्प्रदायानामनुगामिन एकस्य शास्त्रग्रन्थस्य नाम सादरं गृह्णन्ति । 'श्रीतत्त्वार्थाधिगमः' इति तन्नाम । अस्मिन् शास्त्रे पूर्वधरेण भगवता श्रीमदुमास्वातिना सूत्रशैल्या नवमेोऽध्याये पञ्चविंशतितमे सूत्रे स्वाध्याय: पञ्चप्रकारो दर्श्यते
जिणुतसिद्धतगहियपरमट्ठा
'वाचना- प्रच्छनाऽनुप्रेक्षाऽऽम्नाय धर्मोपदेशा:' इति ।
सूत्रस्य भावार्थोऽयम् - साधनानिमग्नैः श्रमणैरयं पञ्चप्रकार: स्वाध्यायो नित्यं समाचरणीयः (१) वाचनाशिष्यादिजिज्ञासव आगमादिश्रुतैः पाठनीयाः (२) प्रच्छना - सूत्रार्थसम्बन्धिप्रश्नोत्तराणि कर्तव्यानि । (३) अनुप्रेक्षाअधीतं श्रुतं मनसा चिन्तनीयं परावर्तनीयम् । (४) आम्नायः - नूतनः श्रुताभ्यासः कर्तव्य:, कण्ठीकृतस्य वा श्रुतस्य मुखोच्चारपूर्विका पुनरावृत्तिः कर्तव्या । (५) धर्मोपदेशः - सूत्रार्थयोः प्रवचनं कर्तव्यम् । श्रमणेभ्यः श्रमणोपासकेभ्यो वा धर्मस्योपदेशो दातव्यः ।
अस्य सूत्रस्य प्रत्येकवचनानि गुरुवरजीवने सार्थानि ज्ञायन्ते । अत एव पूर्वस्मिन् प्रसङ्गे गुरुवरजीवनं शास्त्रसमर्पितमासीदिति दर्शितम् ।
स्थलस्य सङ्कीर्णत्वाद् वयं केवलमन्त्र प्रस्तुत सूत्रौक्तेषु स्वाध्यायप्रकारेष्वन्तिमस्य धर्मोपदेशस्यैव चिन्तनं कुर्याम ।
गुरुवरप्रवचनानि बहुशो द्विस्त्रिरपि भवन्ति स्म । अनेके ज्ञानपिपासवो जनाः सुदूरं यावदागत्य गुरुदेववचनसुधापानं कुर्वन्ति स्म। माध्याह्निके वाचनाकाले 'कम्मपयडि' सदृशस्य नितान्तकठिनस्याऽभ्यासग्रन्थस्याऽध्ययनाय सूरचन्द्र पी. बदामी इत्याख्यः निवृत्तन्यायाधीश (B.A.L.L.B. Retired small causes Justice) अपि आगच्छति स्म । अन्यविदुषां
नमामि नित्वं गुरुधर्मसूरिन्
११७