________________
प्रथमंचरणम्
वैक्रमीयं १९६९ तमवर्षम्। 'लखतर'इत्याख्यो ग्रामः। पर्वाधिराजपर्युषणमहापर्वण: शुभदिनानि। मुनीनामयोगः, अभ्यस्तश्रावकाणांचाऽपि परोक्षता।
प्रारम्भिकदिवसा: केन प्रकारेणाऽपि व्यतीताः। नवरं, चतुर्दश्या विस्तृतप्रतिक्रमणक्रियायां महती विपत्तिः सृष्टाः। अत: सर्वैरपि चिन्तितम् - 'सांवत्सरिकप्रतिक्रमणसदृशी महती क्रिया वर्षमध्ये सकृदेव भवति। तत इयमाराधना भवितव्या शोभनैव। तदर्थ किञ्चिदपि कार्यम्' इति।
फलतः सङ्घनायका निकटस्थेवर्धमान(वढवाण)ग्रामीयसक्षेसांवत्सरिकप्रतिक्रमणकारयितुं विज्ञप्ति प्रेषितवन्तः।
वर्धमानग्रामस्य सङ्घनायकैश्चिन्तितम् - 'सांवत्सरिकं गुरुतमं प्रतिक्रमणमन्यस्मिन् ग्रामे साधु कारयितव्यम्। अतस्तैः शीघ्रमभ्यासवतः क्रियाकारस्याऽन्वषेणं प्रारब्धम्। उपक्रमोऽयं भाईचन्दकुमारेण ज्ञातः। मातुरनुज्ञां प्राप्य स स्वत: सङ्घागण्या पुर उपस्थितवान, प्रतिक्रमणार्थ च गन्तुं स्वस्यानन्यचित्ततां दर्शितवान्। सङ्घनायका भाईचन्दकुमारेण सुपरिचिता आसन्। 'छबलबेन' इति तन्माता पाठशालाया अध्यापिकाऽऽसीत्। चतुर्दश्यां तेन विहितानि पाक्षिकातिचारादिसूत्राणि सर्वाभिः स्पष्टानि श्रुतान्यासन्। तथाऽपि केवलं नववर्षीय लघुबालं दृष्टवा ते सहजं शङ्कितवन्तः। ते पृष्टवन्तस्तम् - "अन्यस्मिन् ग्रामे सांवत्सरिकप्रतिक्रमणार्थ गन्तव्यम्, ननु सूत्रादयस्तु नितरां मुखस्थाः सन्ति न वा? अस्मद्ग्राभख्यातिर्मनागपि ह्रस्वा न भवितव्या।"
भाईचन्दकुमारः श्रद्धया सह प्राह - "सर्वाणि सूत्राणि मत्कण्ठगतानि सन्ति। ग्रामख्यातिईस्वा न भविष्यति, अपि तु वर्धिष्यते ध्रुवम्।"
नामानि नित्यं गुरुधर्मसूरिन्