________________
परमविशवन्धो गरुनगवन्तः
'आसन् गुरुवरा: कीदृशा:?' इति प्रश्नो यदि उपस्थितो भवेत्तर्हि संक्षिप्तमुत्तरं मया काममनया रीत्या दीयेत 'गुरुवरा आसन् (१) शासनाधीशसमर्पितजीवना: (२) शास्त्रसमर्पितजीवना: (३) साध्वाचारसमर्पितजीवनाश्च।' भावार्थोऽयम् 'गुरुवरैर्दर्शन-ज्ञान-चारित्ररूपरत्नत्रय्यै स्वजीवनं समर्पितमासीत्।'
यद्यपि, गुणाकरगुरुवरानेतान् समाख्यातुं ७०० दलीय-विशालकाय- युगदिवाकराख्य आकरग्रन्थोऽपि अपूर्ण: स्यात्, तत उक्ता वाक्यत्रयी तुगुरुवरसंस्तवाय सर्वथा एवाऽसमर्था भवेत् । तथाऽपि वो समासत: संस्तवार्थमिमानि त्रीणि वाक्यानिनूनमुचितानि भविष्यन्ति । वयं यथाप्रस्तुतं प्रत्येकं वाक्यं प्रसङ्गत्रयेन निरीक्षामहे।
शास्त्रेषु प्रभुप्रेम त्रिविधं दर्शितम् - (१) प्रियम् (२) प्रियतरम् (३) प्रियतमंचेति । विवक्षितं पात्रं प्रति यदाऽन्तस्तले विशेषप्रेमानुभूयेत, तदा तत् प्रेम 'प्रियम्' इति नाम्ना निगद्येत् । विवक्षितं पात्रं प्रति यदा परेभ्यो विशेषतरं प्रेम सञ्जायेत, तदा तन्नाम भवेत् 'प्रियतरम्' इति। यदाच विवक्षितं पात्रं प्रति सर्वेभ्यो विशेषतमं प्रेम स्फुटीभवेद् हृदये, तदा तन्नाम स्यात् "प्रियतमम् इति । प्रीतेस्यं चरम: सर्वोत्तमश्चाऽस्ति प्रकारः।
चिन्तकाः कथयन्ति 'विश्वेऽस्मदीयानि प्रियाणि प्रियतराणि वा पात्राणि कामं कानिचिदपि स्युः। किन्तु प्रियतमं पात्रं तु परमतारकतीर्थकृद्भगवतो विना कोऽपि न भवितव्यः।' अस्मिन् जगति लोकनाथ एव प्रियतमो भवितुमर्ह इति तात्पर्यम्। अत एव योगिपुरुषेणानन्दघनमहोदयेन स्वकृतयुगादिदेवस्तवनान्तः पङ्क्त्याऽनया ज्ञापितं ननु 'ऋषभजिनेश्वर प्रीतम माहरो, औरनचाहुरे कंत' इति।
नमानि नित्वं गुरुधर्मसूरिन्