________________
आर्जवस्वामिनःपूज्यवरा:
जगति जनानां त्रयो विभागा: सन्ति। अन्येषां पदानि विलुप्य निजपादन्यासको मानव उच्यते 'दुर्जनः' इति । परेषां पदानि अनतिक्रम्य निजपादस्थापक उत्तममनुष्योऽवबुध्यते 'सज्जनः इति । स्वस्य च पदानि विलुप्तानि विलुप्यन्ते वेति चिन्ताऽपि येनन क्रियते, सनिष्कामः सर्वोत्तमोमहापुरुष कथ्यते नितरां 'विरक्तजनः इति।
विरक्तजना विश्वेऽत्यल्या दृश्यन्ते। तेषु विरक्तजनेषु अन्यतमा आसन्नस्मद्गुरुवराः पूज्ययुगदिवाकराचार्यश्रीधर्मसरीश्वराः। स्वगौरवोपरि यदि कोऽपि जनो विना कारण चिकिलमुच्छालयेत्तदा समता सुदूर्लभा भवति। गुरुवरा एतादृशे कठिनसमयेऽपि विरक्ता: समतामया: स्थिता आसन्। तेषामविच्छिन्नप्रसन्नताया ज्ञापकोऽस्ति विशिष्टप्रसङ्गोऽयम्
तस्मिन् समये गुरुवरनिश्रानेरणाभिश्च मुम्बईमहानगरीयानि नैकान्युपनगराणि जिनालयोपाश्रयादिभिः समलङ्कृतानि भवन्ति स्म। अत: शासनहितायैव पूज्यगुरुवर्याणां मुम्बईमहानगरेषूपनगरेषु चाऽनवरतं षोडश चतुर्मासानि अभवन्।
यद्यपि, प्रत्येकं चतुर्मासं गवति स्म विविधसङ्घषु विपिनोमनगरेषु च । किञ्च, शेषकाले तु गुरुवरा गुजरातमहाराष्ट्रादिषु दूर-सुदूरं यावद् विहृत्यत्तत्रत्यशासनकार्याण्यपि कारयन्तिस्मा तथाऽपि गुरुवरैर्निरन्तरं षोडशचतुर्मासानि (विक्रमसं. २०१६ त: २०३२) मुम्बईमहानगरोपनगरेषु कृतानीति निमित्तं पुरस्कृत्य कश्चिद्बुधजन: 'मुम्बईसमाचार' इति वृत्तपत्रे गुरुवराणां मुम्बईमहानगरे जातानि चतुर्मासानि टीकाप्राधान्येन समीक्षितवान्।
नमानि नित्वं गुरुधर्मसूरिन्
1०९