________________
गुरुवरा आहुः-"चिकित्सकैः कामं हस्तौ प्रक्षालितौ। परं, अनेन चेम्बुरनगरीयप्रथमतीर्थपतिना करौ न प्रक्षालितौ। जगद्गुरु श्रद्धेहि। तद्भक्त्याऽशुभान्यपि कर्माण्युपशान्तानि भवन्ति । त्वं तावद् मरणाय मनसा सज्जोऽसि। तर्हि अन्तिमतरणोपायस्वरूपं धर्मफलकं कथं न ग्रहणीयम्? ज्ञानिनाऽपि शास्त्रेऽभिहितम्- 'अबन्धूनामसौ बन्धु-, रसखीनामसौ सखा। अनाथानामसौ नाथो, धर्मो विश्वकैवत्सलः।।' इति। ततस्त्वया मत्कथनमनुसृत्य शुभोपाय: कर्तव्यः। तस्य साधु फलं स्यादित्यस्ति शक्यम्।"
निरुत्साह: सावको गुरुवराणामुपरि तेषां च सवात्सल्यानि वचनान्युपरि श्रद्दधानोऽभवत्। गुरुवरप्रेरणामनुसृत्य स प्रथमतीर्थाधिपतीनां जापमारब्धवान्। अलवणाऽऽचाम्लपूर्वस्य वर्धमानतपसः प्राथमिकसाधनामपि स प्रक्रान्तवान् । विंशतिदिनानि यावत् साधना कृता। श्रद्धायुतसाधनाया विरामे जाने श्रीपालकुमारस्य जीवनघटनापुनरावृत्ता जाता। हरितकुष्ठः प्रायेण तिरोभूतवान्। क्रमेण च स श्रावक: सम्पूर्णतया
तत्प्रेरणां न विस्मृतवान्। साधनारत: सोऽधुनाऽपि जीवति। एतर्हि वैक्रमीये २०६९ तमे संवत्सरे वैशाखकृष्णायां द्वितीयायां, रविवासरे ७५ वर्षीयः स सुश्रावकः श्रीधर्मधामनागेश्वरपार्श्वनाथतीर्थेऽस्मदीयपूज्यपाद्गुरुवरान् वन्दितुमागतस्तदानीं तस्य वर्धमानतपसश्चतुःसप्ततितमालि:-७४ तमी श्रेणी पूर्णतां प्राप्ताऽऽसीत्। हरितकुष्ठेन पराजयं प्रति गच्छत: स्यात्मनो विजयवरदानस्य दातॄणां परमतारकचेम्बुरतीर्थपतीनां वर्धमानतपसां, युगदिवाकरगुरुवराणां चोपकारं नवजीवनदातृत्वेनस नित्यं मन्यते। अद्यापि नूतनाचाम्लाले: प्रारम्भात् प्राक् स स्वस्योपकारिणां गुरुवराणामष्टोत्तरशतकृत्वोनामस्मरणं करोतिसनियमम्।
प्रस्तुतघटनायां प्रथमतीर्थेवरऋषभदेवपरमात्मनां नि:सीमा कृपा वर्धमानतपसश्च प्रभावोऽपि नि:संशयं दृश्यते । परं, अमूं घटनां यदा वयं गुरुदेवजीवनप्रसङ्गत्वेनाऽऽलिखामः, तदानीं तेषां परमोपकारिणां स्तवनाय नूनं कथयिष्याम:-(१) कल्पवृक्ष: (२) कामधेनुः (३) चिन्तामणिः, एते त्रयोऽपि सत्तमा याचितमेव यच्छन्ति। परं, सतां तु सङ्ग विनैव याञ्या सर्व प्रदत्ते। यत: सन्तो विषादपरेषु जनेषु भवन्ति प्रसादपरा:-करुणापरा नित्यं नितान्तम्।
नीरोगीभूतः।
स्वजीवने साक्षादनुभूतचमत्कारस्य तस्य श्रावकस्य चेतसि स्वजीवनतारकेषुगुरुवरेषुएतादृशी श्रद्धाघनीभूता, यद्गृहगमनपश्चादपि स
कमामि
गुरुभूमि