________________
अद्य केचित् सङ्घस्य स्वल्पं कार्यं कृत्वाऽपि शिलालेखाँश्चित्रपटाँश्चाऽपेक्षन्ते। इयं प्रथा नूनमनर्हा नाऽऽवकार्या। प्रतिपक्षे पूज्यवरा आसन्नादर्शमहापुरुषाः। तत्रभवन्तः कदाऽपि न कृतवन्तः स्वनामादिचिन्ताम् । यद्यपि, कृतज्ञसधैस्तत्सर्वं स्वत एव क्रियेत तर्हि न बाधः। परं, पूज्यवरैस्तादृशो दुराग्रहः कदाऽपि न सेवितः। तेषां जीवनयात्रा प्रधानत इममेवाऽऽदर्श शिक्षतेऽस्माकमिति मम मन्तव्यम् । निःस्वार्थदयादृष्टीनां तेषां कार्याणि जिनशासनगगने चामीकरवर्णेषु 'यावच्चन्द्रदिवाकरौ' प्रकाशमानानि भविष्यन्ति...."
सहृदया इमे शब्दाः पूज्यपादाऽऽचार्यदेवश्रीमद्विजयसद्गुणसूरीश्वरैलिखिता आसन् । एवमनुभूयते यत् कदाचित्ते गुरुवराः 'परोपकाराय सतां प्रवृत्तयः' इति जीवनमन्त्रधारका आसन्। तेषां जीवनमौल्यानि नूनं विरलान्यासन अत एव औदार्यपूर्णानि महाकार्याणि तस्मिन् काले नैकेषु स्थलेषु सजातानि। एकस्मिन्नाङ्ग्लसुवाक्ये
कथितमेवम् - ASelf-evident truth or good need not to be advertised... भावार्थोऽयम् - स्वतः स्वभावत उत्तमद्रव्याणामुत्तमजनानां च कृते प्रचार आवश्यको न। तयोः प्रसिद्धिः स्वयमेव भवति । अत एव तेषां निःस्पृहगुरुवराणां नाम सर्वजनैरद्यापि भावतो गृह्यते।
तेषां पूज्यपादाब्जगुरुवराणां सर्वेषां हृदयेषु निवसन्त्यै नित्यं मधुरं हसन्त्यै प्रतिकृतये नमनं तु नैकशः करोमि। परमद्य भवति तान् चित्रपटस्थगुरुवरान प्रार्थयितुं मनः - “अयि गुरुवराः! हृदयस्थाः! अहमपीच्छामि मज्जीवनमौल्यविकासं, मज्जीवने सौजन्यविकासम् । भवतामिव सौजन्यम्। विनयपूर्ण - विवेकपूर्णं - अनाकाङ्क्षापूर्ण - उदारतापूर्ण - प्रभावनापूर्णं - मधुरतापूर्ण - करुणापूर्ण - सौम्यतापूर्ण च सौजन्यम्...।
अयि गुरुवराः! प्रसादपराः! अयमस्ति मदन्तरनादः । विश्वासोऽप्यस्ति यद् भवतामनर्गलोऽस्ति मयि आशीर्वादः... इति।"
नमामि कि मुलायमूरिम
१०३