________________
मा
परोपकारायसतांप्रवृत्तयः
सौराष्ट्रप्रान्तस्य पोताशयपुरं 'धोलेरा'इत्याख्यम्। तदानीं वैभवशालिनगरेषु अन्यतमं तन्नाम। तत्र विशालजिनालयोपाश्रयादिधर्मस्थानान्यपि आसन्। परं, समयान्तरे वैभवः पराङ्मुखोऽभवत्। जिनालयादिस्थानान्यपि जीर्ण-शीर्णान्यभवन् । समग्रजिनालयः जीर्णोद्धारार्हः सञ्जातः। किन्तु तत्कृते स्थानिकसङ्घोऽक्षम आसीत् । तस्मिन् संवत्सरे तत्र पूज्याचार्यश्रीमद्विजयसद्गुणसूरीश्वराः (तदानीं मुनिपदधारकाः) विराजन्ते स्म । ते धैर्यमुत्साहं च प्रदाय श्रीसचं प्रेरितवन्तः-"भोः! मुम्बापुर्यां पूज्यपादयुगदिवाकराचार्यदेवश्रीमद्विजयधर्मसूरीश्वरसमीपं गन्तव्यम् । यद्यपि, अहमपि तेभ्योऽपरिचितोऽस्मि। परं, तेषां ख्यातिपरिचयोऽस्ति। अहं तेषामुपरि विज्ञप्तिपत्रं लिखामि। सर्वं सुष्ठु भविष्यति।"
कार्यकर्तारो गमनार्थमुद्यता जाताः। ते मुम्बईमहानगरं गताः। स्तोकदिनैश्च कार्यसिद्धि प्राप्य पुनरागता अपि। तत्रान्तरे कार्यकर्तृभिरनुभूतं वृत्तं सदगुणसूरीश्वरैः शब्दस्थं कृतम्। ते लिखितवन्तः - "कार्यकर्तारो मुम्बईमहानगरमगच्छन्। आदौ द्वित्राणि विपक्षीयस्थानानि गताः। परं, तत्र कार्यसिद्धिर्न जाता। अन्ततस्ते वालकेश्वरमुपगुरु याताः। सादरं सत्कृतास्ते पञ्चषेषु च दिनेषु बहुधनं प्राप्य प्रत्यावृत्ताः। नैतावद्, अपि तु पूज्यप्रवराणामाचार्यश्रीमद्विजयधर्मसूरीश्वराणां महानुभावत्व-औदार्य-प्रभावादिगुणानपि अनुभूयाऽऽगताः । तेषामाचार्यवर्याणां महती शासनप्रीतिरपि दृष्टा। अन्यत्र कटुप्रतिभावा अनुभूतास्तेऽपि तैः कथिताः। इतो गुरुवरे तु प्रत्याकाङ्क्षाऽपि न दृष्टा। 'सर्वे सङ्घा अस्मदीया एव सन्तीति स्नेहेन तत्रभवद्भिः कार्यं कृतं, ततो मानसं गुरुवरान्प्रति विशिष्टबहुमानभावयुतमवनतंच जातम्।
नमामि नित्यं गुरुधर्मसूरिम्
१०१