________________
कर्तव्यमिदमेव स्याद, यत्तेषामितस्ततो भ्रमणं न भवेत्।" अस्य भावार्थ: स्पष्ट एवासीत्।
गुरुवरहस्ताक्षराणामचिन्त्यः प्रभावः सञ्जातः। अत एव असौ ट्रस्टीवर्यः ८१,००० रूप्यकाणां दानमचिरेणैव स्वीकृतवान्। पश्चात् स शवेश्वरस्य ट्रस्टीवर्याश्च मिलित्वा पूज्यश्रीधर्मसूरीश्वरानुपसर्ग्य सुखोदन्तमिमं ज्ञापितवन्तः। तदा तत्र परमोत्कृष्टं वृत्तं जातम्। औदार्येशैर्धर्मसूरीश्वरैरुक्तम्-"इयं तु युष्माभिस्तेषामावश्यकता पूर्णीकृता। मत्समीपंहर्षाभिव्यक्तये यूयं चेदागता: स्थ, तर्हि ९१,००० रूप्यकाणां दानं कर्तव्यम्।" त्वरितमेव पूज्यगुरुवराणामिमानि वचनान्यपि अमुना ट्रस्टीमहोदयेन श्रीसितापचन्दवर्येण शीघ्र शिरोधृतानि।
अस्य वृत्तस्य शब्दश: साक्षात्कर्ता शर्खेश्वर-आगममन्दिरप्रमुखवयश्रीरमणलाल श्रेष्ठी महतीसु सभासु प्रसङगमिमनुलक्ष्य बहुश: कथयति
"क्यं गुरुवरप्रभावं साक्षात्कृतवन्त:,अन्येषां कार्याणि प्रति तत्रभवतां गुरुवराणामौदार्यमार्जवं च दृष्ट्वा वयं विस्मयाऽन्विता अपि सजाताः। एतस्मिन्नपि आश्चर्यजननी महती वार्ता त्वियम्, यदुक्तकार्यसिद्धेः पश्चादपि तत्रभवद्भिर्गुरुवरैः स्वनामाङ्कनार्थं प्रत्यक्ष: परोक्षो वा सङ्केतोऽपिन कृतः। एतादृशा निरीहचित्तास्ते गुरुवराआसन्...."
यस्य हृदयमन्दिरे जिनशासनं विराजमानं स्यात, ते शासनधौरेया आचार्या एतादृशा औदार्यशीला: स्युः। ते 'मम तव' इति विचारकर्तारो न स्युः। परं केनाऽपि प्रकारेण नभोमण्डले जिनशासनपताका स्फुरायमाणा भवेदिति चिन्तकाः स्युः। अत एवोक्तम्-'आचार्या जिनशासनोन्नतिकरा: इति।
स्पर्शमणे:प्रभाव: श्रूयते-'तत्संयोगिलोहं काञ्चनमयं भवति' इति। मणे: स्पर्शस्याऽयं प्रभावः। गुरुवरा आसन्नस्मात् स्पर्शमणेरपि विशेषाः। गुरुवराणां प्रभावः स्पर्शमणे: प्रभावाद् नूनमधिकोऽनुभूतः। यतः स्पर्शमणिसंयोगेन लोहं लोहलक्षणानि विमुच्य सुवर्णगुणानङ्गीकरोति, परं स्वयं स्पर्शमणिस्तु न भवति। इह तु गुरुवरसुसङ्गेन जनाश्चिन्तामुक्ताश्चिन्तनयुक्ता:, संशयमुक्त्ता: शातायुक्ताः, कषायमुक्ता: करुणायुक्ता:, वैरमुक्ता: प्रेमयुक्ताः, दुर्गुणमुक्ता: सद्गुणयुक्ताश्च भवन्ति। अन्ततो गुरुवरसदृशा एव भवन्ति।
अत एवोक्तं गुरुवरा: स्पर्शमणेरपि अधिका इति। तेषां साक्षात् पवित्रसंस्पर्शलाभ: कामं न प्राप्तो मया। परं, प्रसङ्गमाध्यमतस्तेषां पवित्रजीवनस्पर्शलाभस्तु प्राप्यतेऽद्य, सोऽपिहर्षावलेमहत्कारणमस्ति।
मानिमिgal