________________
आकाशविजेत्री हार्दिकी विशालता
"जिनालयस्य मुख्यगर्भगृहस्यादेशहेतोर्युष्माभिर्मुम्बई-वालकेश्वर-तीनबत्तीजिनमन्दिरस्य ट्रस्टीमहोदयानां पाई गन्तव्यम्। आदेशग्रहणाय च तेऽनुनेतव्याः।" शर्खेश्वर-आगममन्दिरप्रेरक: पूज्यपन्न्यासश्रीअभ्युदयसागरगणिवरः संस्थाया ट्रस्टीवर्यान् व्याचष्टे स्म-"एतर्हि तत्र वालकेश्वरे पूज्याचार्यवर्यश्रीधर्मसूरीश्वरा विराजन्ते। युष्माभिरयं वार्ताव्यतिकर: पूर्व तेभ्यो ज्ञापनीयः । यतस्तेऽपितत्रस्थट्रस्टीमहोदयान् प्रेरयिष्यन्ती"ति।
तदानीं शलेश्वर -आगममन्दिरनिर्माणे धनस्यावश्यकता बहुतराऽऽसीत्, अत्रान्तरे संस्थाप्रेरकगुरुणा कृतमिदं सूचनं शिरसि धृत्वा श्रीरमणलालगान्धीप्रमुखसंस्थासञ्चालका वालकेश्वरं (मुम्बईमहानगरं) गतवन्तः। मुम्बईगमनपश्चाद् युष्माभिः प्रथम पूज्यपादाचार्यप्रवरश्रीमद्धर्मसूरीश्वराणां समीपं गन्तव्यमिति कथितमासीत् संस्थाप्रेरकपूज्यवर्येण। किन्तु कुशाग्रैः (?) ट्रस्टीवर्यैरन्यदेव चिन्तितम्-'अस्माद्धेतोः श्रीधर्मसूरीश्वरसमीपगमनेन कृतम्। वयं ट्रस्टीमहोदयानामेव सम्पर्क कुर्मह' इति। यतोऽपरसमुदायस्था: श्रमणा: अन्यसमुदायस्थश्रमणानां कार्याणि प्रधानतो न कुर्यादिति तन्मन्तव्यमासीत्। अत: ट्रस्टीवर्याः स्वयं वालकेश्वरस्य प्रमुखट्रस्टीमहोदयस्य निवेशमयुः। तेषां जिनालयमुख्यगर्भगृहयोजनाया धनाङ्कः ८१,००० रूप्यकाणि आसीत्। अनुवार्तालापं प्रमुखट्रस्टीमहोदय आदेशग्रहणाय उत्सुको जात:। परमेतस्मै कार्याय तस्य ५१,००० रूप्यकाणामेव धनाकोऽभिप्रेत आसीत् । आगममन्दिरट्रस्टीमण्डलस्य धनावश्यकता बहुतरा आसीत् । इत: ३०,००० रूप्यकाणां क्षतिरपि असहनीयाऽऽसीत्। ते किङ्कर्तव्यमूढाः सञ्जाता: 'अथ किंकर्तव्यमिति।
अन्ततस्ते प्रतिश्रये पूज्यधर्मसूरीश्वराणां पार्श्वमागतवन्तः। पूर्वापरं च सर्ववृत्तान्तं तेभ्यः कथितवन्तः। 'आदाविमे नाऽऽगता:' इति किञ्चिदप्यविचार्य गुरुवरा एक लघु पत्रखण्डं गृहीतवन्तः। तस्योपरि मुख्यं ट्रस्टवाहकं श्रीसितापचन्दवर्यमुद्दिश्य पङ्क्तिद्वयमितं लघुसन्देशमालिखितवन्त: शखेश्वरकार्यवाहकांश्च पुनस्तत्र प्रेषितवन्तः। सन्देश एवमासीद् -'श्रावकबन्धवो जैनसंस्थायाः कार्यार्थ युष्मद्गृहाङ्गणमागच्छे-युस्तदानीं युग्माकं
नमामि हित्वं गुरुधर्मसूरिन्।
९७