________________
अथ गुरुवराणां हार्दिकौदार्यस्यैकतमः प्रसङ्गः ।
पार्श्वचन्द्रगच्छीय- श्रीवसन्तप्रभाख्यसाध्वीवर्यया विषयेऽस्मिन् स्वानुभवो गुर्जरभाषायां प्रकाशितः स च संस्कृत इत्थम् - "मुम्बई महानगरेऽस्मदीयपार्श्वचन्द्रगच्छीयेषु दीक्षादिधर्मप्रसङ्गेष्विमे गुरुवरा नित्यमात्मीयगुरुजनवद् विज्ञप्तिं स्वीकृत्य स्वयमुपस्थिता भवन्ति स्म, शिष्यपरिवारं वा प्रेषयित्वा प्रसङ्गशोभावृद्धिं कुर्वन्ति स्म । अस्माकं दृष्टिपटलेऽद्याऽपि एतादृशानि मधुराणि नैकानि प्रसङ्गस्मरणाण्युपस्थितानि सन्ति।"
श्रमणीवर्ययाऽनया परमतारक- परमात्म श्रीमहावीरप्रभूणों 25तमीं निर्वाणशताब्दीमनुलक्ष्य 'मङ्गलं भगवान् वीरो याने श्री महावीर 'जीवनज्योति' इत्याख्यं पुस्तकमालिखितम् । पुस्तकसम्मार्जनं गुरुवरैः क्रियेतेति तस्या हृदयेच्छा । तया लज्जानतास्यसाध्वीवर्यया बहुविचारान्ते स्वमनोभावा गुरूणामग्रे व्यक्तीकृताः परिणामः कीदृश आगत ? इति विषये सा श्रमणीवर्यया गुर्जरभाषायां लिखितं तदत्र संस्कृते दर्श्यते ।
4)·8·
"अस्माभिः पुस्तकसम्मार्जनाय गुरुवरा विज्ञप्ताः । वयं सर्वाः साऽशङ्का आस्म । परं महान् विस्मयः । गुरुवरैः पुस्तकस्य प्रत्येकान्यक्षराणि दृष्ट्वा यथायोग्यं सर्वं सम्मृष्टम्, शुभाशीर्वादयुतं चोद्बोधनमपि मिष्टं लिखित्वा पुस्तकप्रतिरस्मभ्यं प्रदत्ता । तदानीमस्माकं प्रसन्नता कल्पनातीता सञ्जाता। अन्यगच्छीया इमे शासनधुरीणा आचार्यवराः शासनधर्मयोः कार्यशृङ्खलायां सम्बद्धा भवेयुरिति सहजम् । तथाऽपि अन्यगच्छीयलघु श्रमण्या लिखितपुस्तकस्य सम्मार्जनं कृत्वा प्रसादपरा आचार्यप्रवरा आन्तरिकौदार्य दर्शयेयुस्तदस्ति विरलं सत्यम् । नूनं जिनशासनमेतादृशैर्गुरुवरैरेव विजयतेतराम् ।..." इमानि हार्दिकपदानि गुरुहृदयोपले लाञ्छिताममूं सूक्तिं दर्शयन्ति -
'अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ।।'
wagen
6