________________
उदारचरिताबांतुवसुधैव कुटुम्बकम्
महापुरुषाणां हदयं स्यात् कीदृशम् ? विश्वसदृशं विशाल मेघसदृशं चोदारम्। तच्च स्याद् 'मामर्क-तावकमि'ति भेदरेखापरम् । तद् हृदयं सर्वजीवानात्मीयान् गणयेत् । गुरुवरा अप्यासन् महापुरुषाः, तस्माच्चैवोक्तविधविशालोदारहृदयेश्वरा अपि। अत एवान्यगच्छीयसधानां श्रमण-श्रमणीनांच कार्याणि आत्मीयतापुरस्सरं ते कुर्वन्ति स्म ।
मुम्बईस्थितचेम्बुरनगरे प्रवृत्तैषा तेषां हृदयविशालतादर्शिका घटना
अस्मिन् क्षेत्रे तपोऽञ्चलपार्श्वचन्द्रेति गच्छत्रय्या अनुयायिनः साहचर्येण गुरुवराणां यथामार्गदर्शनं सर्वधार्मिकप्रसङ्गेषु सम्मील्योत्सवान् कुर्वन्ति स्म । क्वचित् सामाचारीभेदात् तपोगच्छीयपर्युषणापर्वणोऽञ्चलगच्छीयपर्युषणापर्व पूर्वभागच्छति स्म।
एकदा गुरुवराणां चतुर्मासं निकटस्थे सोऽभवत्, तदा ईदृशः प्रसङ्गश्चेम्बुरमध्ये समुपस्थितवान्। अञ्चलगच्छीयः सङ्घो गुरुवराणां समीपमागतवान्, बारसासूत्रादिवाचनार्थ च श्रमणाय विज्ञप्तवान् । विशालहृदयेशगुरुवरा दीर्घदृष्ट्या प्रणालिकाभेदेऽपि त्वरितमेव तदर्थ स्वश्रमणयो रसासूत्रपठनार्थमनुमति दत्त्वाऽज्ञलसमुदायस्याराधनायामनुग्रहवन्तोऽभवन् । ततःपरमीदृशं नसकृत, परं नैकशो भूतम् । गुरुवराणामभिप्रायस्तेषु सर्वेषु प्रसङ्गेषु एवमासीत् - "गच्छ-मान्यता-परम्पराभेदा अस्मिन् काले विशेषेण सम्भवन्ति । यतो वयं सर्वे छदास्थाः स्मः। ततो वयमस्मदीयसुगृहीताराधनां श्रद्धापूर्वमाराध्नुयाम। इतन्वाऽऽन्येषां परम्पराविषये सर्वथा विमुखा अपि न भवेम। प्रत्युत शक्यसहकारवन्तो भवेम। वयं परस्परसहयोगेन संवसेम, तदेव सङ्घशासनहितार्थमस्तीति।" चिन्तनमिदं गुरुवराणामान्तरिकविशालतां सुचारु व्यनक्ति।
नामानि नित्वं गुरुधर्मसूचित