________________
'उत्कृष्टचारित्रधराणां - ब्रह्मचारिणां चिन्तितमुक्तं च सहज सफलीभवेत्' इति वचनमत्र सार्थक दृश्यते । यतो गुरुवरा उच्चचारित्रवन्तः- नैष्ठिकब्रह्मगुणधारका आसन्।
तथा गुरुवरैः सह विहरन् सुश्रावको नाम घाटकोपरतपागच्छसङ्घस्याऽग्रिमः सङ्घसेवक: 'संघवी श्रीमनसुखलालहेमचन्द्रः' इति। वृत्तमिदं घाटकोपरस्य प्रवचनसभासु तेन नैकशश्चमत्कारस्वरूपेण वर्णितमासीत्।।
इदं वृत्तं न कश्चिच्चमत्कारः, न च कश्चित् काकतालीयन्यायः, परमेकं वचनसिद्धिरूपमासीत्। गुरुवराणां साधनाप्रचुरस्पोच्च श्रामण्यस्य साक्षात्प्रभावस्वरूपमासीत् तत्।
एतस्मिन् विशेषः - चमत्कारवार्तासु गुरुवराः सर्वदा पराङ्मुखाः, 'परं तत्रभवतां पुण्यमेव - उच्चजीवनसामर्थ्यमेव तादृगासीद् येनैतादृशाः
प्रसङ्गाः सहजा भवन्ति स्म। इमं सन्दर्भमगीकृत्य स्मरामि रघुवंशकाव्यगतोऽयं श्लोकोयथा
लौकिकानां हि साधूना-मर्थ वागनुधावति।
ब्रामीणां पुनराधानां, वाचमर्थोऽनुधावति।। - भावार्थोऽयम् - लौकिक-सामान्यसाधूनां जनानां च वाणी प्रस्तुतपदार्थाननुसरति । सम्मुखे यादृशःपदार्थो भवेत्तादृशं ते वदन्ति । परं, पूर्वऋषीणां महापुरुषाणां वार्ता विशिष्टाऽस्ति। ते महापुरुषा यथापदार्थयथाद्रव्यं वा न वदन्ति। किन्तु, तेषां वचनानुरूपमेव पदार्थोऽनुधावति। पूज्यपादगुरुवरा अपि एतत्तुल्या सिद्धवचना महापुरुषा आसन्निति सुगम्यतेऽनेन प्रसङ्गेन।
कानियाभूमि