________________
वचबसिद्धिस्वामियः
२३
मेघस्य विहारः। अपिनाम वृत्तमिदमशक्यप्रायं प्रतिभास्यति तच्च स्वाभाविकमपि अस्ति। पर, गुरुवरजीवन एतदपि वृत्तं वस्तुतो जातम्।
मुम्बईमहानगरे दादररोपनगस्त उपनगरं घाटकोपरं प्रति आवश्यककार्यार्थ गुरुवरा विहरमाणा आसन्। घाटकोपरवासी कश्चिदग्रणी: सुश्रावकोऽपि गुरुवरैः सह विहरति स्म। अर्धकिलोमीटरमितं विडताः, तावन्मात्रे दादरप्रदेशे वारिधरो वृष्टिमारब्धवान् । गुरुवराणां जलधराणां चाऽन्तरं 500/600 पदमात्रमासीत् । अनुगुरुवरं जाने मेघोऽपि विहरति स्म। अतः 'अथ किं कर्तव्यमिति मुग्धेन सुश्रावकेण गुरुवराः पृष्टा - "पर्जन्योऽयमधुना अत्राऽपि वर्षिष्यति ततः कथं विहरिष्यामो गुरुदेव!?"
गुरुवरैः प्रत्युक्तम्- "मा चिन्तय। पर्जन्योऽस्मभ्यं मनागपि कष्टं नदास्यती"ति।
असौ सुश्रावको गुरुवचनान्मौनी जातः। पर, मानसेऽवगच्छति स्म, यदियमस्ति केवला कतिपयक्षणीया क्रीडा। पर्जन्या रक्षणमशक्यप्रायम्।
परं महदाश्चर्यम्।गुरुवरा अग्रे विहरन्ति स्म, पर्जन्यस्तुगुरुवरेभ्योऽनतिदूरे पश्चात् स्थित्वाऽविरामेण वृष्टिं कुर्वन् वर्धते स्म। जाने अग्रे गुरुवराणां विहारः, पृष्ठे च मेघस्य विहारः। निरन्तरं पञ्चघटिकां यावदिदमचलत्। सुरक्षिता गुरुवरा विघ्न विना घाटकोपरनगरं समासादितवन्तः।
नमानि तित्वं गुरुधर्मसूरिन्