________________
यवनजिज्ञासुमुक्तवन्त:-"हस्तरेखां निरीक्षितुं नूनं दास्यामि । किन्तु, तदर्थं पूर्वपणस्वरूपात्वयैका प्रतिज्ञा ग्रहणीया।"
अहोभावपूर्व नूरमहम्मदेन सद्यः कथितम्-"अवश्यं गुरुवरा: अहं भवभिदत्ता प्रतिज्ञानूनं ग्रहीष्यामि।"
"एवं चेद् यावज्जीवमामिषत्यागनियम स्वीकुरु।" - 'गुरुवरा: प्राहुः।
चमत्कृतिश्च सजाता। शय्यम्भवविप्र इव एष यवनजिज्ञासुरपि शीघ्र गुरुवराणां पुण्यवतीं प्रेरणामगृह्णात, जीवनं यावत् पिशिताहार-त्यागस्य नियमार्थमुभौ हस्तौ समयोजयत् । तदानीं तस्य वदनस्योपरि केवलं हर्षानुभूतिरेव प्रवर्तमानाऽऽसीत्। अत्र पुनरवधेयम्-स्वकृते मांसाहारत्यागस्य दुर्वहप्रतिज्ञाया धारकः स जिज्ञासुधर्मण जिनानुगामी न, किन्तुसुदृढयक्नआसीत्।
कथितप्रसङ्गे पूज्यपादारविन्दयुगदिवाकरगुरुवराणामतिप्रभावकं शरीरैश्वयं सौभाग्यैश्वर्य प्रकटमेव दृश्यते, परमाधिक्ये गततृतीये प्रसङ्गलेखे वर्णितगुर्जरत्रिपद्यास्तृतीयांशोऽपि दृश्यमानो भवति। त्रिपद्यास्तृतीयांशरूपेणतत्रसम्यग्बुद्धिनिर्दिष्टाऽऽसीत्।
ननु केवलं करतलरेखादर्शनाशयादुपस्थितमेकं यवनजनमपि 'अरुन्धतीप्रदर्शनन्यायेन' सद्धर्मपथे योजयन्तीं विरलविचारधारां वयं सम्यम्युद्धिमेव कथयिष्यामः, अन्यद्वा किञ्चित् ?
अवधेयम् - शास्त्रेषु जिनशासननायकानामाचार्यप्रवराणामेकस्यां गुणषत्रिंशिकायां 'प्रयोगमतिसम्पद् उल्लिखिताऽस्ति । तस्या भावार्थोऽयम् - 'ते जिनशासनोन्नतिकरा आचार्याः शिष्यान् भाविकांच धर्मवम॑नि प्रवर्तयितुं निपुणा भवन्ति।' उक्तप्रसङ्गे पूज्यपाद्गुरुवराणांसा प्रयोगमतिसम्पदेव सुफुटा दृश्यते नितराम्।
.
..
कानियाभूमि