SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तस्यां सभायामेवास्मिन्नायोजने सपादलक्षरूप्यकाणां वृष्टिः सञ्जाता। एतदायोजनेन युगदिवाकरगुरुवराणां संवेदना-शासनानुरागसमदर्शितानां प्रतीकरूपं श्रमणीविहारस्य भव्यभवनं निर्मितम्। यत्र सार्धशतद्वयावधिश्रमणीवर्या अद्यापि निवसन्ति, प्रशस्यतमां च साधनां कुर्वन्ति। श्रमणीविहारस्याऽस्या: समुज्ज्वलोद्भवकथायाः सन्धाने श्लोकोऽसौ नूनमुदाहरणीयोऽस्ति 'मनसि वचसि काये पुण्यपीयूषपूर्णा,त्रिभुवनमुपकारश्रेणीभिः प्रीणयन्तः। परगुणपरमाणून्पर्वतीकृत्य नित्यं, निजबदि विकसन्तः सन्ति सन्तः कियन्तः।।' भावार्थोऽयम्-संसारेऽस्मिन् मनसा वचसा वपुषा चेति योगत्रयेण निर्मलहृदयिनः, उपकारश्रेणीभिः त्रिभुवनवर्ति-सत्त्वेभ्य: प्रसन्नताप्रदायकाः, अन्येषां च परमाणुसदृशानपि गुणविशेषान् शैलीकृत्य नित्यमुररीकुर्वन्तो महापुरुषा अतिविरला: सन्ति। पूज्ययुगदिवाकरगुरुवरा नितरामीदृशा अतिविरला महापुरुषा आसन्। उक्तवृत्तान्तस्य विशेषा प्रतीति: पूर्वोक्तप्रसङ्गस्यान्तरिकौदार्यपूरिते पराकाष्ठानिचिते चरमे चरणेऽधिगम्यते। यदा श्रमणीविहारस्य निर्माण पूर्णतामधिगतं, तदा कैश्चित् हितकासिभिर्गुरुवरा उक्ता: - "श्रमणीविहारे भवन्त: कतिपयखण्डान्भवदीयसमुदायवर्तिश्रमणीनांकृतेपृथक्स्थापयन्तु।" ___ गुरुवराः सद्यस्तत्प्रस्तावं प्रतिषिद्धवान् - "ईदृशं किमप्यन्तरं नोचितम् । परमार्थत: शासनस्य गुणनिष्पन्ना: सर्वा अपि आर्या मदीया एव सन्ति।" आन्तरिकौदार्यनिचितायां प्रस्तुतप्रत्युक्त्यां पूर्वप्रसङ्गोक्ताया अमुष्या गुर्जरत्रिपद्या द्वितीयोऽश: ('होश' = शासनपरत्वे तीव्रानुराग इति) निष्यन्दते। यस्मादाविर्भूतयोर्निष्ठापूर्णशासनभक्ति - प्रज्वलितशासनरागयोरान्तरध्वनिरद्यापिजाने प्रतिध्वनयतीति अनुभूयते। स्वार्थशीलेऽस्मिन् विश्वे निरीहत्वमीदृशमनुत्तरम् ? ममत्वमृतेऽस्मिन् युगे निर्ममत्वमीदृक्षमनन्यम् ? भो गुरुवरा:! भवतु नैककोटिवन्दना भवतां तस्यै सन्निष्ठशासनभक्त्यै, तस्मै प्रज्वलिततीव्रशासनानुरागाय च । जमानियाभूमि
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy