________________
विरागिणः थाऽपिपरमशासबारागिणः
तदानीं पादलिप्तपुरे रम्यं दृश्यमासीत्। यतो मुम्बईमहानगरत: परमशासनप्रभावनापूर्व प्रस्थितस्य भव्यपदयात्रासङ्घस्य पादलिप्तपुरे प्रवेशस्य महानवसर आसीत्।
लोहाध्वगन्त्रीभिः प्रस्तरतैलशकटिकाभी राज्यशकटिकाभिश्च (क्रमत: 'Train - Car - Bus' इति यान:) पदयात्रासङ्घस्वागतार्थं समागतैर्भगवद्भक्तैर्गुरूपासकैश्च पादलिप्तपुरं जनाकीर्णं सञ्जातम् । स्वागतयात्रा प्रभूतोल्लासपूर्वकं पुरराजमार्गे प्रचलतिस्म।
परं किमिदम् ? पूज्ययुगदिवाकरगुरुवरनेत्रे अस्मिन्नालाद्पूर्णेऽवसरेऽपि बाष्पैर्जलसिक्ते अभवताम् । कारणं तत्र इदं यत् कस्मैचित् साध्वीवृन्दाय व्यवस्थापकैर्धर्मशालान्त: प्रवेशो न दत्तः, अत: बाबुपनालालधर्मशालाया अलिन्दे तेन साध्वीवृन्देन निवासः कृतः। श्रमणमर्यादारक्षणार्थं वासांसि परितः प्रलम्ब्य तेन वृन्देनोपयुक्तमावरणं रचितम्। गुरुवरनेत्रयोरिदं करुणं दृश्यं गतम् । अत एव करुणानिधीनां तेषामक्षिणी बाष्पैर्जलसिक्ते अभवताम् । गुरुवरैस्तदैव निश्चितम् 'अत:परंपादलिप्तपुरमहातीर्थे मया श्रमणीवर्याभ्य एकमाराधनास्थानं स्वतन्त्रं कारयितव्यमिति।
तत:परं तृतीये दिने विशालप्रवचनसभायां गुरुवरा इमं दुःखदं वृत्तान्तं वर्णयित्वा शितधारया गिरा कथितवन्त:"यत्र त्यागि-तपस्वि-श्रमणैः श्रमणीभिश्च निवासो न लभ्यते, तत्स्थानाय 'धर्मशाला' इति शब्दोऽनर्हः, प्रत्युत 'कर्मशाला' इत्येव शब्दोऽर्हः। अधुना पादलिप्तपुरे श्रमणीनां स्वतन्त्राराधनार्थमेकमाश्रयस्थानमावश्यकमस्ति, यत्र शतश: श्रमण्य: सुखेन साधना कुर्वीरन्निति मम स्वप्नः। सुपात्रभक्तेरस्मिन् कार्ये केचनापि श्रावकाः श्राविकाश्च लाभवञ्चिता न भवन्तु।"गुरुवराणामियमचिन्त्यप्रभावसम्पन्ना हृदयस्पर्शिप्रेरणा सफला सञ्जाता।
नमानि नित्वं गुरुधर्मसूरिन्