________________
अस्याः सघ उक्ताया गुर्जरत्रिपद्या: क्रमेणाऽयमर्थो भवति-(१) 'होश' =(संस्कारविषये) जागृतिः । (२) 'होश' = (शासनविषये) अनुराग:। (३) होशियारी' = (सम्यग्) बुद्धिः । त्रिपद्या: प्रत्येकानर्थान् वयं क्रमश: पूज्यपाद गुरुवराणां जीवनस्य विविधप्रसङ्गेन सह सयोजयिष्यामः।
तत्र प्रथमांशोऽस्तिजागृतिरिति। गुरुवरा: सम्यक्संस्काराणां नितरां पक्षपातिन आसन्। अतएव तेषां रक्षणार्थ सदैवजागरूका आसन्।
वैक्रमीये पञ्चाधिकद्रिसहस्राब्दे जातोऽयं प्रसङ्गः। तदानीं गुरुवरा घडियालीपोळ-वटपद्र (वडोदरा) नगरमध्ये चतुर्मासाय विराजन्ते स्य। नूतन उपाश्रयो 'निर्मीयमाण आसीत्, इति कारणात् ते पूज्या जैनधर्मशालायां चतुर्मासं स्थितवन्त आसन्। तत्र अधोभूम्यां लघुक्यस्कबालानां बालमन्दिरं प्रवर्तते स्म। एतस्मिन् बह्वो बाला जिनधर्मगा आसन्।
एकस्मिन् दिने विश्रामावसरे पूज्यवरा: सहजमधो निरीक्षितवन्तस्तर्हि सहसा विस्मयं प्रापुः । तत्र बालेभ्योमाध्याह्निकोपाहारे कदलीफलीयं न, किन्तु आल्वीयं खाद्यं दीयमानमासीत् । जैनबालेभ्य आल्वीयं खाद्यं दीयेतेति वृत्तं बालसंस्करणविषये पूर्णजागरूका: पूज्यवरा: कथं क्षमेरन् ? तैः श्रावका: कथिताः। तदानीं श्रमणोपासकैः प्रत्युक्तम् -
"गुरुवरा: ! नैकश: कथितमेतत् । तथाऽपि बालमन्दिरस्य शिक्षक; किञ्चिदपिन श्रुणोति । इदं केवलं जैनंबालमन्दिरंनाऽस्तीति तदाशयः।"
आकयेदं गुरुवरास्तत्क्षणमादिष्टवन्त - "ततो वयमेव जैनं बालमन्दिरमारभेमहि । अस्माकमेवेदं स्थानम्। ततोऽस्मदीयसंस्थाया एवोद्भव कामं भवतु । संस्काररक्षणं तु भविष्यति...।"पुण्यशालिपूज्यवराणां प्रस्ताव: आवकवरैः शीघ्रं शिरसि गृहीतः। ततो वैतनिकं बालमन्दिरं व्यारमत् । संस्कारनगयाँ चाऽनेकवर्षाणि यावत् प्राप्तप्राज्यप्रचारं जैनं बालमन्दिरं प्रारब्धम्।
___ 'संस्कारहीना: पशुभिः समाना: इमामुक्तिदाढ्येन परिष्वजमाना गुरुवरा: प्रस्तुतप्रसङ्गे दृश्यन्ते। बालसंस्करणाभिलाषेण सार्धमभक्ष्यपदार्थोपयोगमस्वीकुर्वतां गुरुवराणामाचारनिष्ठाऽपि प्रसङ्गेऽस्मिन् स्फुटा दृश्यते।
अन्ततो गुरुवरानेतावदेवाऽनुनयामि-"भो गुरुवरा:! यादृशी कृपादृष्टिर्भवद्भिर्खालमन्दिरस्याऽमीषु बालेषु कृता, तादृशीं कृपादृष्टि सकृदस्मिन् बालसेवकेऽपि कुरुध्वम् । अहं विश्वसिमि-भवतां कृपादृष्टिमज्जीवने सुसंस्काराणां सर्जनमेव न, अपि तु संवर्धनमपि करिष्यतीति।"
मानियाभूमि