________________
सुहृदः साहवानं वचनमङ्गीकृत्य त्वरितं भाईचन्दकुमारः प्रत्युक्तवान्- "ओमोम्, निःसंशयम् । तत्र मम प्रज्ञा नूनं कार्य करिष्यते।"
" तर्हि तिष्ठ, एतव ज्वलतोऽङ्गारान् नीत्वाऽऽगच्छामि, तव च मुक्ते करतले तान् निक्षिप्य पश्यामि यद् बुद्धिः कथं कार्यं करोति ?” इत्युक्त्वा स बालः स्वगृहं प्रत्यधावत् ।
परिहास उपद्रवे परिणतः। परितः स्थितवन्तो वृन्दस्यान्ये सहचराः स्तब्धनेत्रा अभवन्। अत्रान्तरेऽसौ बाल एकस्मिन् भाजने त्रीन् यावदङ्गारान् गृहीत्वा समागच्छत्। 'अथ किं भविष्यति' इति मन: कल्पनायां निमग्ना मित्रबाला निकट गृहस्थिता च भाईचन्दकुमारस्य माता (छबलबहेन) इदं हृदयङ्गमं दृश्यं मूकप्रेक्षकवद् निरीक्षमाणा आसन् ।
कथ्यते सूक्तौ 'दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम्।' एवमेवाभवत्तत्र ।
40.
तदा भाईचन्दकुमारस्य साहाय्ये सन्मतिः किल धावन्ती समागता । तत्क्षणं धराधूल्या स्वस्य द्वौ हस्तौ स पूर्णवान्, अमुष्य च मित्रबालस्य सम्मुखमञ्जलिं विरच्य तेन कथितम् - "आगच्छ, अथ निक्षिप तवाङ्गारान् मदीयामञ्जल्याम् ।"
भाईचन्दकुमारस्येमां सहसाऽऽविर्भूतां प्रतिभां दृष्ट्वा माता सहचरा नितरां हर्षिताः सञ्जाताः । आह्वानकर्ता चाऽसौ बालसहचरो लखानतास्योऽभवत् ।
बालभाईचन्द्रकुमारचेतसि आविर्भूतेयं प्रतिभा प्राकृता न, अपि तु विशिष्टाऽऽसीत् । तत्प्रभावतो भविष्यति नैकेषां जीवने सन्धिसर्जनमभवत्, नैकेषां हृदये धर्मभावसर्जनमभवत् । कदाचित् सा प्रतिभा गगनस्थित तारकमिव भवविरागतारकं विद्योतितुं निमित्तरूपा सञ्जाता, कदाचिच सा शासनरागदीपकं दीप्तिमन्तं कर्तुं निमित्तरूपा जाता | आगम्यताम्, तस्यै विरलप्रतिभायै तत्स्वामिने च सहृदयं प्रणमामो वयम्।
wagen