________________
हृदयङ्गमा क्रीडा
हृदयङ्गमा क्रीडा न केवलं क्रीडाङ्गणे क्रीडावीराणां मध्ये क्रियते। परं क्वचिन् मध्येरथ्यं बालानां मध्येऽपि क्रियते। किञ्च, हृदयङ्गमाऽपि सा क्रीडा क्वचित् तादृशी स्याद्, यतो दर्शकाणां श्वासोऽपि क्षणं यावदुत्थितो भवेत्। एतादृश एव हृदयङ्गमः प्रसङ्गोवर्धमान(वढवाण)नगरे वैक्रमीये १९६७ तमे संवत्सरे सञ्जातः।
तदानीमेका लाघविमण्डली वर्धमाननगरमागता। ग्रामे जनप्रवादो वायुवत् प्रसृतः-तस्या मण्डल्याः कश्चिन् पायाकारोज्वलत्सु अत्युष्णाङ्गारेषु चलिष्यतीति। अलम्, इमां वातां ज्ञात्वा कुतूहलप्रिया जना: सम्भाषणे मग्नाअभवन्। कस्मिंश्चित्स्थले केचिद् बालाअपि सम्भाषन्तेस्म।
एकोऽवदत्-"ईदृशं शक्यमस्तिखलु ? नग्नपादोजन: साक्षादगारेषुचलेत, तथापिनदहेत?" द्वितीयः प्राह- "अरे भ्रातः ! ऐन्द्रजालिकः कस्य नाम? सतुसर्वमेव कर्तुं शक्नोति।"
किञ्च, तृतीयेनोक्तम् - "अरे! इन्द्रजालस्येमा वार्तास्तु नितरां छलना अस्ति। लोकवञ्चनस्य व्यवसायोऽस्ति। अन्यथाशक्यं नास्तीदृशंदुष्करं कार्यम्।"
मूज्यपादयुगदिवाकरगुरुवरा अपि तदानीं सांसारिकावस्थायां भाईचन्दकुमाररूपेणास्मिन् बालवृन्दे विद्यमाना आसन्। तेऽपिप्राहु:-"कथं शक्यं नास्ति? यदिबुद्धिपूर्विका योजना भवेत्, तर्हि सर्वमेव शक्यं भवेत्।"
इदं श्रुत्वैक: ८ वर्षीयो मित्रबालो भाईचन्दकुमारस्य हस्तमादाय कथितवान् - "रे! एतस्मिन् बुद्धिविषय: कुत आगतः? इमौ तवहस्तावथुनामयादहद्भिरङ्गारैभरिष्येते. तदा किं तव प्रज्ञा कार्य करिष्यते?"
नामानि नित्यं गुरुधर्मसूरिन्