SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ WAWA पदयात्रासङ्घस्य पूर्वविश्रामस्थले तत्रभवदिमः खम्भातसङ्घाय स्वहृदयगतं ज्ञापितम्- "भाग्यवन्तः ! अहमभिलषामि, सङ्घप्रवेशनिमित्तेन सर्वेषां खम्भातवासिनां नवकाराराधकजैनधर्मिणां समूहसाधर्मिकवात्सल्यं भवेदिति । अग्रगण्या भ्रातर आहु:- "गुरुदेव ! अशक्यप्रायं कार्यमस्तीदम् । गते शताष्टके वर्षे नगरे किञ्चनमपि साधर्मिकवात्सल्यमेतद्विधं सामूहिकं न सञ्जातम्। यतः प्रत्येकावसरेषु मतभेदास्तस्थिवांस एव सन्ति। नैके कलहा अद्यापि विद्यन्ते। अतः कार्यमतिदुर्गममस्ति ।" अग्रेसराः समूहसाधर्मिक वात्सल्यं कामं नेच्छन्ति स्म। परं एकस्मिन्नाङ्ग्लभाषीये सुवाक्ये कथितमस्तिनु-'Where there is a will, there is a way' अर्थात् मन: शक्तिर्भवेत् तर्हि मार्गों नूनं प्राप्येतेति । गुरुवरा ईषदपि निराशा न भूत्वा यत्नशीला बभूवुः । यत्नश्च तेषां सफलो जातः । अन्ततः पदयात्रासङ्घस्य खम्भातप्रवेशदिने सर्वेषां खम्भातनगरवासिनां नवकाराराधकजैनधर्मिणामाकुमारपालादद्यावधि न सम्पन्नं विरलं समूहसा धर्मिकवात्सल्यमभवत् । *** विक्रमसंवत्सरे नवाधिकद्विसहस्रवर्षे चारित्राकरे दर्भावती (डभोई)नगरेऽपि गुरुवरैरेवंविधं सङ्घवैमनस्यविसर्जनं सौमनस्यसर्जनं च कारितम्। तत्र नैकेभ्यो वर्षेभ्यो विजयदेवसूरिजैनसङ्घ- सागरगच्छ जैन सङ्घयोर्मध्ये द्वन्द्वमावः प्रवर्तमान आसीत् । ततश्चोग-विवादाः प्रवर्तन्ते स्म । गुरुवरा एतदर्थं प्रयत्नं कृत्वा तत्र पर्युषणामहापर्वणः पश्चात् रथयात्रासङ्घसाधर्मिकवात्सल्यादिकार्यक्रमान् नित्यं संयुक्तान- कारयन्, सङ्घद्याभ्यन्तरे च परस्परसंहतिप्रीत्योः सर्जनमकुर्वन् । यतो गुरुवराः सदैवैवमन्वाना आसन् संहतिः कार्यसाधिका' इति । ये ये सङ्घा गुरुवरसान्निध्यं प्राप्तवन्तः, प्रेमभावसर्जनं तेषु प्रत्येक सङ्घेषु सञ्जातम्। कथयति सुभाषितमेवम् 'गङ्गा पापं शशी तापं, दैन्यं कल्पतरुस्तथा । पापं तापं च दैन्यं च हरेत् साधुसमागमः ।।' अहं वेधि- अस्य सुभाषितस्य साक्षात् प्रमाणमस्ति गुरुवरजीवन-चरित्रमिति । wagen
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy