________________
१९
वैक्रमीयं २०२५ तमं वर्षम् । महाराष्ट्रसीमान्तवर्तिनि बोरडीग्रामे नवनिर्मित शिखरबद्धजिनायतनस्य भव्य प्रतिष्ठामहोत्सव आरब्धः । गुरुवराणां शुभनिश्राऽऽसीत् । हर्षोल्लाससाम्राज्यं परितः प्रसृतम् । अरे! न केवलं बोडीजानपदीयाः, अपि तु पार्श्ववर्तिप्रत्येकप्रामीया भाविका अपि तन्महोत्सवस्य तत्प्रदेशानन्योपकारिगुरुवराणां च दर्शनार्थमायान्ति स्म ।
सङ्घसमन्ययाऽऽकाङ्क्षिणः
परं तत्रतः ४ किलोमीटर दूरवर्ती घोलवडग्रामीयः सङ्घोऽस्मिन् महोत्सवे विशेषेण न सम्मिलति स्म । गुरुवरैरनुमितं यद् द्वयोः सङ्घयोर्मध्ये वैमनस्यबीजमुप्तमस्तीति । तदुच्छेत्तुमुभयोः सामीप्यं वर्धेत तादृशं किञ्चित् कर्तव्यम् । अतो गुरुदेवैरेक: प्रस्ताव उपन्यस्तः- 'प्रतिष्ठा बोरडीग्रामे कामं भवतु, परमपरेद्युद्वरोद्घाटनयात्रा घोलवडसङ्घप्राङ्गणतो भवत्' इति। गुरुवराणां पुण्यप्रभावायत्तावुभौ सङ्घावेनं प्रस्तावं सोत्साहं स्वीकृतवन्तौ । परमेतस्मै कार्याय घोलवडसङ्घेन प्रतिपण: कृत:- 'यदा द्वारोद्घाटन शोभायात्रा घोलवडसङ्घप्राङ्गणतः प्रारभ्येत, तदा भवद्भिस्तत्र निश्रां प्रदायाऽस्माभिः सार्धं नूनमागन्तव्यमेव । तत्पश्चादेव प्रस्तावोऽयमुचितो भवेदिति ।
अभिमतसङ्घसमन्वयैर्गुरुवरैस्तदर्थं सम्मतिः प्रदत्ता । हृदयरोगेण च ग्रस्तास्ते गुरुवरा अस्यै द्वारोद्घाटनशोभायात्रायै न केवलं बोरडीग्रामाद् घोलवडग्रामं गतवन्तः परं तत्रस्थसङ्घेन सार्धं घोलवडग्रामाद् बोरडीग्रामागमनस्य कष्टमपि गृहीतवन्तः । फलत उभौ सङ्घौ सख्यभावयुतौ बभूवतुः। द्वयोश्च मध्ये स्थिरा संहतिः संस्थापिता । पूज्यपाद्गुरुवरा आसन् सङ्घैकतायाः सफलशिल्पिनः । एतादृशा द्वित्रा एवं न, अपि तु सङ्घसख्यतां सुदृढीकुर्वन्तो नैके प्रसङ्गास्तेषां जीवनशिलायामङ्किताः सन्ति ।
अथ जिनालय नगरस्य खम्भाताख्यस्याऽऽख्यायिकामवगच्छेम । २०३३ तमे विक्रमसंवत्सरे मुम्बापुरीतः (मुम्बईत:) पादलिप्त पुरस्य महता छ'री' पालकपदयात्रासङ्घेन सह गुरुवरास्तत्र खम्भातनगरं समागताः । तत्रागमनात् पूर्वस्मिन् दिने
नमामि नित्यं गुरुधर्मसूरिन्