________________
सङ्घसमाधिकारका गुरुवराः
१८
महाराष्ट्रप्रान्तीयपेनग्रामीया वार्तेयम् । तत्र प्रतिष्ठामहोत्सवहेतवे पूज्यपाद्गुरुवरा आगताः । एकादशवर्षेभ्यः प्राक् पूज्यपादसिद्धान्तनिष्ठाचार्यदेव श्रीमद्विजयप्रतापसूरीश्वरैरिदं जिनमन्दिरं प्रतिष्ठितम्। तदनु कस्मिंश्चिदिने श्रावकैः पूजासमये परमात्मप्रतिमा चलिता । अतः सङ्घः पुनः प्रतिष्ठानिर्णयं कृतवान् । एतन्मङ्गलकार्यार्थं च पूज्यगुरुवरा विज्ञप्ताः । सङ्घस्य विज्ञप्तिमुररीकृत्य गुरुवरा: पेनग्रामं समागताः ।
परं, पूर्वप्रतिष्ठामहोत्सवतुलनायामस्मिन् प्रसङ्गे काचिन्न्यूनताऽनुभूयमानाऽऽसीद्। एका विषमा घटना तस्या मूले सुषुप्ताऽऽसीत् । वृत्तमेवं जातम्, गतप्रतिष्ठामहोत्सवे महालाभग्राहकसङ्घनायकस्य सङ्घस्यान्यसदस्यैः सह पूर्वप्रतिष्ठा दिने (वि.सं. २००६) एव महान् मतभेदः समुद्भूतः । घटना क्षुद्रा, किन्तु तस्या निराकरणं नाऽऽगतम्। फलतः सङ्घप्रमुखस्त्यागपत्रं दत्तवान्। सङ्घकार्यं तेन त्यक्तम्। प्रभुदर्शन-पूजने अपि त्यक्ते किञ्च गृहं तस्य जिनालयाभिमुखमेव, तथाऽपीदं काटवं ११ वर्षपर्यन्तमनारतं स्थितम् ।
एतद्विपरीतस्थित्यां पूज्यपादगुरुवरा: पेनग्रामं प्राविशन्। असौ सद्गृहस्थो गुरूणां प्रवेशेऽपि नाऽऽगतः । अज्ञानवशात् कश्चिदात्मा जिनदर्शनं पूजामपि त्यजेदेषा घटना गुरुवरकृतेऽतिदुःखदाऽऽसीत् । प्रवचनानन्तरं मानापमानयोः समानवृत्तयो गुरुवराः स्वयममुष्य श्रावकस्य गृहं गताः। स्वगृहस्याङ्गणे निमन्त्रणं विनैवागतानाचार्यदेवान् स ददर्श स्तब्धनयनश्च बभूव । तेन स्वागतवन्दनादिरुचिता गुरुभक्तिः कृता ।
गुरुवरैर्लघुरपि हृदयस्पर्शिसद्द्बोध: प्रदत्तः । नैकेभ्यो वर्षेभ्यो कषायतापेन मनः सन्तापेन च तप्तः स सद्गृहस्थः पूज्यवराणाममृतमयीं वार्णी श्रुत्वा भृशं रोदितवान् ।
नमामि नित्वं गुरुधर्मसूरिन्