________________
धर्मजान्धा:संवेगबिरिन्धी प्रेरणा
मृत्युः। जीवनस्यायमेकोऽनिवार्य:समयखण्डकोऽस्ति । जगत : सर्वे मानवा विदन्ति यद्यो जीवो भवे जीवनमाप्नोति, स नियतं मृत्युमाप्नोति । अनादिकालीनपरम्परामेतां भूतभाविवर्तमानकालेषु कोऽपि परिवर्तयितुं न शक्नोति। तथाऽपि केचिदतिस्नेहपात्रा: स्वजना यदाऽन्तवेलां प्राप्नुवन्ति तदा माणां लोचनान्यतितमां वर्षन्ति। मनसि संस्थितस्तत्स्वजनानामतिस्नेह ईदृशं कारयति। कदाचित् सन्तापस्येदमेव कारणं हृदि निर्वेदस्य बीजारोपणेऽपि निमित्तीभवति।
अस्मदृष्टिपथे संप्रति येषां गुणसिन्धूनां गुरुदेवानां जीवनप्रसङ्गाः क्रमतोऽवतरन्ति, तेषां पूज्यपादारविन्दयुगदिवाकरगुरुवर्याणामन्तर्विरागबीजमपि एतादृश्यैककारुण्यपूर्णया घटनयाऽऽविर्भूतम्। इदमस्ति तन्महत्त्वपूर्णमितिवृत्तम् ।
तस्मिन्काले ते गुरुवरा: षड्वर्षमात्रवयस्का आसन् । तेषां सांसारिकाभिधानं तदा 'भाईचन्दकुमारः' इत्यासीत्। वैक्रमाब्दे १९६६ तमे 'हीराचन्दभाई' इत्याख्यो भाईचन्दकुमारस्य पिताऽकस्माद् व्याधि प्राप्तवान्। लघीयसि व्याधौ तस्यातर्कितो मृत्युरभवत्। तेषांगृहं स्वजनैामजनैश्चाकीर्णमभूत्। समन्ताव्यथानां पर्यश्रूणां च दृश्यानि समुद्भूतानि।
"छबलबहेन' इत्याख्याया भाईचन्दकुमारस्याम्बाया: करुणकथा त्ववर्णनीयाऽऽसीत्। तस्या नयनाभ्यामविरतमश्रुधारा वर्षन्त्याऽऽसीत् । बालो माईचन्दकुमार एतत्सर्वमाश्चर्यभृतनेत्राभ्यां निरक्षत।
गेहे प्रसृतामुद्विग्नतां निरीक्ष्य किञ्चिद् दुःखदं जातमिति सोऽनुभूतवान्।किन्तु 'मृत्यु म किं?'इमां वास्तविकता बालमानस: स नाऽजानीत्। एतत्सर्वं निरीक्ष्य तन्मनसि नैके तर्क-वितर्का उदपद्यन्त। मनसो वितर्का बहिरागन्तुमिच्छन्ति
नमामि नित्वं गुरुधर्मसूरिन्