________________
शब्दस्थं वात्सल्यमनुभूय तस्य शिष्यस्य श्रावकाणां च नेत्राण्यपि हर्षाश्रुभिरार्द्राणि जातानि । लज्जया नतशीर्षेण गद्गदेन शिष्येण विनम्रस्वरेणोक्तम् - "गुरुवराः । भवतां वात्सल्यभावो वदत्येवम्, परमार्थत एवं किञ्चिदपि नास्ति । यदि चैतादृशमनुभूयते तर्हि भवतां कृपाया एव तत् फलमस्ति । आतपस्थः स्फटिको यदि चकास्ति तर्हि स प्रभावस्तस्य स्फटिकस्य न परमंशुमालिनोंऽशूनामस्ति । तत एतादृशं चिन्तनं न कार्यम् । प्रथमं चरणं भवद्भिरेव स्थाप्यम् ।"
तस्य दर्शनीयदृश्यस्य पूर्णविरामः कीदृशोऽपि आगतः परं तद् दृश्यं किल विरलमासीत् । तद्विरलदृश्यस्य दृष्टृणां सर्वेषां सौभाग्यशालिजनानां चित्तं तदा हर्षेणापूरितं जातम्। तद् हर्षगर्भं वृत्तं ज्ञात्वाऽद्य मादृशानां हृदयमपि हर्ष समृद्धं भवति, ततस्तस्य साक्षाद्दृष्टृणां तु का वार्ता ?
*
*
*
वैक्रमीयं 2027 तमं वर्षम्। मुम्बई घाटकोपरशाखापुरस्य चतुर्भूमिकस्य श्रीविंशतितमतीर्थकृन्मुनिसुव्रतस्वामिजिनप्रासाद
स्याञ्जनशलाका-प्रतिष्ठामहामहोत्सवप्रसङ्गः । स एवाऽस्या विरलघटनाया उद्भवस्थानम् ।
ते सिद्धान्तनिष्ठगुरुवरा आसन् पूज्यचरणारविन्दपुण्यनामधेयाचार्यदेव श्रीमद्विजयप्रतापसूरीश्वराः । तेषाञ्च विनम्रता -
मूर्तितुल्या विनेया आसन् पूज्यपादपद्मपुण्यश्लोकाचार्यदेवश्रीमद्विजयधर्मसूरीश्वराः ।
प्रस्तुतप्रसङ्गे का वर्धेत ? पूज्यसिद्धान्तनिष्ठगुरुवराणां वदान्यतापूर्णं वात्सल्यम् ? आहोस्वित् पूज्ययुगदिवाकरगुरुवराणां विनम्रता गुरुसमर्पणभावना गुर्वायत्तता वा ? इति तुलाधिरोहणमत्र नास्ति शक्यम् । यद्यपि, उभौ गुरुदेवौ गुणगरिष्ठावास्ताम् । शासनस्य सन्निष्ठप्रभावकावास्ताम् । तत्रभवतोः परस्परं गुणतुलनाया निरर्थका चेष्टा नितरां नोचिता । तत्रभवन्तौ गुरुवरौ तु श्लोकस्याऽमुष्य देहस्वरूपावास्ताम्'शुभानुष्ठानकार्येण श्राद्धवर्गप्रबोधकः । आचार्य एष विज्ञेयो, धर्मतीर्थप्रभावकः ।' इति ।
यद्यपि पूर्णविरामोऽत्र न कर्तव्यः । किन्तु, मनाग् विलक्षणदृष्टिबिन्दुना किञ्चिदन्यदपि ज्ञातव्यम् ।
कस्मिंश्चित् स्थले मया पठितं, गुरूणां च वाचनादौ श्रुतमपि यत् शिष्यः स धन्योऽस्ति यस्य हृदि गुरुर्वसति । परं स शिष्यस्तु धन्यातिधन्योऽस्ति यो गुरुहृदि वसति । सिद्धान्तनिष्ठगुरुवरैरुक्तानां शब्दानां प्रमाणेनाऽहं कथयामि 'पूज्य युगदिवाकरगुरुवराः केवलं शासनस्य समर्थप्रभावका आचार्या एव नाऽऽसन् परं धन्यातिधन्यशिष्या अपि आसन्.... ।'
0.0.0 wagon