________________
१७
“सङ्घस्य महते कार्याय वयं निर्गच्छामः, ततः प्रथमं चरणं युष्माभिर्मुच्यताम् ।" सिद्धान्तनिष्ठगुरुवराणामि शब्दाः । अवधातव्यम्, इमे शब्दास्तत्रभवद्भिर्निजगुरुदेवानुद्दिश्य नोक्ताः प्रत्युत स्वकीयं पुण्यप्रभावयुतं शिष्यमुद्दिश्य कथिता आसन् ।
"गुरुवराः ! कदाऽपि न भवेदेवम्।” विनयावनतः शिष्यः प्रस्तावमिमं विनम्रस्वरेण प्रतिषिद्धवान् ।
"अहं कथयामि प्रथमं चरणं युष्माभिर्मुच्यताम् । इयमस्ति मदीयेच्छा ।" सिद्धान्तनिष्ठगुरुवरा वात्सल्यार्द्रस्वरेणाऽनुरुद्धवन्तः ।
धन्यातिधन्याः शिष्याः
"न गुरुवराः ! वयं तु भवद्बालाः । भवन्तः सन्ति अस्मदीयाः शिरश्छत्राः । अतः प्रथमं चरणं तु भवतामेव स्यात् । " श्रमणानां श्रमणोपासकानां च तत्रस्थितः स्तब्धलोचनो विशालगणो विमूढमनसाऽद्भुतं दृश्यमिदं निरीक्षते स्म। आसीत् स सस्नेहो मधुरो कलहः, उत विनायासमाविर्भूतो गुरुशिष्ययोः पारस्परिकः प्रबलः सद्भावः ? आसीत् सिद्धान्तनिष्ठगुरुवराणामौदार्यं यद्वा पुण्यप्रभावकशिष्यस्य नम्रता ? एतत् सर्वमनिर्णीतमेव जातम् ।
अत्रान्तरे जडवत् तस्थुषां श्रावकाणां समक्षं सहसा दृष्टिपातं कृत्वा सिद्धान्तनिष्ठगुरुवरा हसितवन्तो मिष्टस्वरेण चोक्तवन्तः - “अहमिदमागृह्णामि, तद् युष्मदीयसङ्घलाभार्थमेव । यत एतेषां पुण्यतारको साम्प्रतमतिदीप्तिमानस्ति । यदि प्रथमं चरणं तेन स्थापयिष्यते तर्हि आदेशघोषणासु अद्य सङ्घकोष: पूर्णो भविष्यति । अतोऽधुना युष्मदीयलाभार्थं भावनां न दर्शयामि, परमाज्ञां करोमि - 'प्रथमं चरणं स एव स्थापयेदिति ।'
नमामि नित्वं गुरुधर्मसूरिम्