SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १६ न्यायाचार्य - न्यायविशारद महोपाध्याय श्रीमद्यशोविजयगणिवरैः स्वकृतगुरुतत्त्वविनिश्चयग्रन्थमध्ये महान्तः पञ्चमहाव्रतधारिणो गुरुवरा दीपकसमाना दर्श्यन्ते । तथाहि दीपगुणाः सूचिगुणाश्च गुरुवराः जह दीवो अप्पार्ण, परं च दीवेइ वित्तिगुणजोगा । तह रयणत्तयजोगा, गुरु वि मोहंधयारहरो ।। श्लोकार्थोऽयम् - यथा दीपकः स्वयं ज्योतिषा राजते अन्यश्च दीपकशतान् दीप्तिगुणयोगाज्ज्योतिर्दानं कृत्वा प्रकाशयति तथा जिनशासनस्य महान्तो गुरुवरा अपि 'दर्शन-ज्ञान-चारित्र' इति रत्नत्रयीणामुपासनया स्वयं प्रकाशन्ते अन्येषाञ्च नैकेषां सत्त्वानां मोहतिमिरं रत्नत्रययोगादपहृत्य तेषां जीवनमपि प्रकाशमानं कुर्वन्ति । गुरूणामेतद् वैशिष्ट्यम् । अन्यस्मिन् स्थले तु ३६ गुणालङ्कृतानां तृतीयपदारूढाणां गुणनिधीनां महात्मनां 'दीवसमा आयरिया' इति विशिष्ट विशेषणं प्रदत्तम् । यतः सूरिवराः स्वयं सद्गुणधर्माराधनादिकैर्भ्राजन्ते अन्यांश्चानेकजीवानपि सद्गुणधर्माराधनादिसम्पद्भिर्भासयन्ते । इदं विशेषणं पूज्ययुगदिवाकरगुरुवरजीवने यथाश्रुतमन्वर्थमासीत् । यतस्तत्रभवद्भिः स्वकीयं जीवन तु रत्नत्रय्यास्तेजसा भ्राजमानं कृतमेव। आधिक्ये चाऽन्येषां नैकेषां जीवानां जीवनमपि राजमानं कृतम्, कदाचित् प्रव्रज्याप्रदानेन कदाचित् प्रवचनदानावलम्बेन कदाचिज्जिनालयादीनामालम्बनेन, कदाचित् नमामि नित्वं गुरुधर्मसूरिन्
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy