________________
विश्लमाचार्चपदार्पणम्
आचार्यपदः। जिनशासनस्यायं सर्वोत्तमो पदः। नवपदमण्डलस्य नमस्करणीस्तृतीयपदः। यस्मिन् महात्मनि प्रभावकताऽऽराधकता-नम्रता-गीतार्थता - विद्वत्तादीनां नैकेषां गुणानां समन्वयो भवति स एतत्पदाझै भवति। गुरुवरेष्वपि एतेषां सद्गुणानां समन्वयोऽभूत, तदा तेषां चारित्रपर्याय एकत्रिंशद्वर्षमित आसीत्। स्व-परसमुदायिका गुरुवरा अपि एतदर्थमाग्रहं कुर्वन्ति स्म।परं, गुरुवरा निःस्पृहा ननाश्चाऽऽसन्।ते नम्रतयाऽस्वीकार कुर्वन्ति स्म।
अन्तत एतदर्थं महतां गुरूणामाज्ञा अभवत्। अतः गुरुदेवपार्श्वे कश्चनोऽपि विकल्पो नाऽवशिष्टः। तैः परमगुरूणामाज्ञाऽगीकृता।
एकप्रभावक-जनप्रियगुरुवरेभ्यः परमोच्चपदसमर्पणस्य महान् प्रसङ्गो नितरामद्भुतो जातः। तदवर्णनं वर्णतूलिकया कथं भवेत्? भायखलामध्ये वैक्रमीये २००७ तमे वर्षे गुरुवराणामाचार्यपदारोहणप्रसङ्ग उपधानतपःसाधनायाः ७०० तपस्विभ्यः ४३० तपस्विनां मोक्षमालारोपणमपि आसीत्। इत्येतयोर्महामहोत्सवविषये विद्वद्वर्यश्रीधीरजलाल-टोकरशीशाहवर्येण स्वप्रकाशित 'नवतत्त्वदीपिका' ग्रन्थे ज्ञापितमे वम् "आषार्यपदार्पणप्रसङ्गास्तु बहुशो भवन्ति । परमयं प्रसङ्गस्तेषु विशेष आसीत्। उच्चैस्तरामुल्लासस्य 50 सहस्त्राणि यावज्जनानां च दृश्यं विरलम् । एतदनुतत्रभवन्त आचार्यश्रीमद्विजयधर्मसूरिरूपेण विश्रुता जाताः। अद्यतुनामेदं बहवीं लोकप्रियताप्राप्य सहस्रेषु लक्षेषुओष्ठेषु समारूढं दृश्यते।"
ईदृश आसीत्सभव्यःप्रसङ्गः। वयं तस्यैकां झल्लिकां पश्यामः।
नामानि नित्वं गुरुधर्मसूचित