________________
शिष्याणां जीवनशिल्पिनः
१४
गुर्जरधरायां राजनगरम्। सहस्राधिकजैनधर्मानुयायिनां निवासेन जैननगरमिव तद् धन्यनगरमासीत् । वि.सं. २००१ वर्षे पूज्यपादारविन्दयुगदिवाकरगुरुदेवस्थैर्यं नागजी भूधरपोळजैनप्रतिश्रय आसीत्। स्थैर्यान्तरे दर्भावती (डभोई) नगरीय एको मुमुक्षुर्बालकुमारः पूज्यवरनिश्रायां संयमशिक्षां गृह्णाति स्म । गुरुवरैस्तत्कृते प्रातःकाले कल्यवर्तात् प्राक् पञ्चगाथाकण्ठस्थीकरणनियमो निर्धारितः । मेधाविबालकुमारेण नियमो यथावदाचर्यमाण आसीत् । आदौ पञ्चगाथाः, पश्चादेव प्रातराश इति दैनिक उपक्रम आरब्धः ।
परं, एकदाऽनवधानता स्थानं जग्राह । क्रीडावृत्तिवशीभूतेन मुमुक्षुबालकुमारेण तस्मिन्नह्नि पञ्चगाथा न कृताः । बहु समयो गतः । किन्तु गाथा न जाताः । अन्यतश्च 'अये ! बहुतरः कालो व्यतीतः । अथ झटिति कल्यवतं यच्छ' इति भाटक ध्वनिर्जठराच्च श्रूयते स्म । अतो बालमुमुक्षुरक्षमो जातः । स युगदिवाकरगुरुवरानुपसर्प्य प्रातराशायानुमतिं ययाच ।
गुरुवरैः प्रत्युक्तम् - "कथं भोः ! अद्य तु त्वयैकाऽपि गाथान प्रदत्ता। गाथा अकृत्वैव कल्यवत चिकीर्षुरसि किम् ?" गुरुवरस्य वज्रध्वनिं श्रुत्वा बालमुमुक्षुर्भीतवान्। भयाच्च कम्पमानेन स्वरेण प्रार्थितवान्- "गुरुदेव ! अद्य कथमपि गाथास्मरणं न भवति । क्षुधातुरोऽपि जातोऽस्मि । ततः कल्यवतं कृत्वा गाथाः करिष्यामि । "
इदं श्रुत्वा गुरुवरा नेत्रे किञ्चिद् रक्ते कृत्वोक्तवन्त:- "न, यावत्कालं गाथा न भवन्ति, तावत्कालं प्रातराशोऽपि न स्यात् । प्रथमं गाथाः कर्तव्या: ।"
भीरुर्वालो गाथाः कर्तुमुपविष्टवान् । यद्यपि अद्य प्रक्रमे क्रीडावृत्तिवशात् पश्चाच्च गुरुवरादुपालम्भश्रवणात् स विचलितचित्त आसीत् । अतस्तेन केनाऽपि प्रयत्नेनाऽध्ययने लीनता न प्राप्ता ।
नमामि नित्यं गुरुधर्मसूरिम