________________
परमो विजयः
"मो:! गुरुवरा:! पूज्यपन्न्यासश्रीधर्मविजयगणिवरेषु एतादृशी का विशेषता? यतोऽत्रभवन्तस्तेषां सप्रीति ज्ञानदानं कुर्वन्ति?" जिनशासनस्य अग्रगण्यानामाचार्यप्रवराणां शिष्यास्तेभ्य इदं पृष्टवन्तः।
महामहिमशत्रुञ्जयगिरिराजाके सञ्जातोऽयं प्रसङ्ग:
पादलिप्तपुरस्य धन्यधरा। तत्रस्थ 'माधवलाल धर्मशालाप्रतिश्रये तेषां विद्वच्छिरोमणि-आचार्यप्रवराणां पार्श्वेऽस्माकं प्रसङ्गनायका: पूज्यगुरुवरा: क्लिष्टतमं सटीकतत्त्वार्थमहाभाष्यमधीयन्ते स्म। कथ्यते विनयो वैरिणोऽपि वशीकर्तुं शक्नोतीति। ततो विद्यागुरूणां का वार्ता? नैसर्गिकविनयशीला: पूज्यपन्न्यासश्रीधर्मविजयगणिवरास्तेषामाचार्यप्रवराणां परमप्रीतिपात्रा आसन्। तत आचार्यप्रवरैः श्रीधर्मविजयगणिवरा: प्रीत्या सहाऽधीयन्तेस्माअत उक्त: प्रश्न उद्भूत: शिष्यमनसि।
"सोऽतिविनीतोऽस्ति।"-आचार्यप्रवरा उत्तरं दत्तवन्त:- "कदाचित् तस्य विनयं दर्शयिष्यामि। तत इमं प्रश्नं कर्तुं मनोऽपिन भविष्यति युष्माकम्।"
पाठसमयो नित्यं द्विवादनत: स्त्रिवादनं यावदासीत्।
एकदा पाठसमये काचिद् वेला शेषा आसीत्। तदानीमाचार्यवर्या उष्णवस्त्रपरिधानं कृत्वा संस्तारके कामत: सुप्तवन्तः। तदानीमेव साहित्यमन्दिरात् पूज्यपन्न्यासश्रीधर्मविजयगणिवरा आगताः। आसनं विस्तार्य त उपविष्टवन्तः। सुप्तगुरुवरान् दृष्खा स्वपाठपुनरावृत्तौ दत्तचित्ता अभवन्। पूज्याचार्यप्रवराणां च आगमिकपत्रकपरीक्षणादिषु श्रुतभक्ति
नमामि नित्वं गुरुधर्मसूरिन्