________________
विरलविद्याव्यासङ्गः
एकदा 'विनोबाभावे' इत्याख्यस्य प्रसिद्धलोकसेवकस्य पार्वेकश्चित् पत्रकारस्तस्य पृच्छार्थ (Interview इति आङ्ग्लभाषायाम्) आगतः। पत्रकारो विविधप्रश्नान् कर्तुं लग्नः। विनोबाभावेवर्योऽपि तस्य यथार्हमुत्तरं यच्छति स्म। त्रिचतुरेभ्य: प्रश्नेभ्य: पश्चात् पत्रकारेण विलक्षण: प्रश्न: कृतः। स पृष्टवान् - "मयाऽधुना प्रश्नः क्रियते, पूर्वश्च प्रश्न: कृतस्तन्मध्ये भवान् किं चिन्तितवान्?"
सामान्यतो जना अस्यां परिस्थित्यामभिनवप्रश्नविषये तस्य चोत्तरविषये चिन्तनं कुर्वीरन्। परं, विनोबाभावेवर्येण यदुत्तरंदतम्, तत् श्रुत्वा तस्य प्रश्नकारस्याऽन्तःकरणे तं प्रति अत्यादर: समुद्भूतः। विनोबाभावेवर्यः प्रत्युक्त्तवान्-"मया एषु प्रश्नविहीनरिक्तक्षणेषु पञ्चकृत्वो मत्प्रभो म गृहीतम्।" अन्त:करणे प्रभुप्रीति: सर्वोत्तमा भवेत्, तदैवैतदुत्तरं दीयेत।
यादृशी प्रभुप्रीतिर्विनोबाभावेवर्यस्याऽऽसीत्, तादृश्येव श्रुतप्रीति: पूज्ययुगदिवाकरगुरुदेवानां जिनोक्तं श्रुतज्ञानं प्रत्याऽऽसीत्। श्रुतार्जनार्थ गुरुवरैः स्वजीवनेऽतिपरिश्रमपूर्वमध्ययनं कृतम्, यस्य श्रवणमपि अत्याश्चर्यप्रदम्। आगम्यताम्, मानसोद्यानेबहुदिनेभ्य:पर्यटनं कुर्वत एकस्यप्रसङ्गस्य माध्यमतस्तेषामुत्तमामध्ययनशीलतांवयं प्रस्तुतीकुर्मः।
वैक्रमस्य १९९० तमः संवत्सरः। राजनगर आद्यं श्रमणसम्मेलनं प्रवर्तमानमासीत्।
सम्मेलनार्थ पूज्यागमोद्धारकाचार्यदेवश्रीमत्सागरानन्दसूरीश्वरा: पाजरामोलप्रतिश्रये विराजन्ते स्म। पूज्यगुरुवराश्च स्वीयपरमगुरुवरैः पूज्यप्रवचनप्रभावकाचार्यप्रवरश्रीमनमोहनसूरीश्वरैस्सह जैनमर्चन्टसोसायटीप्रतिप्रये विराजन्तेस्म।
नमामि नित्वं गुरुधर्मसूरिन्