SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सम्यताच वियतौचमहामेकरूपता गुरुवराः कच्छप्रदेशीय-विहारयात्रायां स्थिता आसन्। दिनस्योत्तरार्धः प्रवर्तमान आसीत् । समयश्चासीदनुमानतश्चतुर्वादनवेलायाः। मोथाराग्रामात् सणोसराग्राम प्रति श्रमणा विहृतवन्तः। प्रत्यह सुदीर्घविहारयात्रा भवति स्म । विहारयात्रायां गुरुवरास्तेषां च प्रतिच्छायावत् 'बालमुमुक्षुसेवन्तीकुमारः प्रायेण नित्यं सर्वेभ्यो मुनिभ्यः पश्चात् पौषधशालाया निर्गच्छन्ति स्म त्वरयाच विहृत्य सर्वेभ्यः प्राग् गन्तव्यं ग्रामं प्रपद्यन्ते स्म। नित्यक्रममनुगता गुरुवरा मोथाराग्रामादपि अनुसर्वं विहृतवन्तः। असौ बालमुमुक्षुरपि प्रासुकजलभृतां लघ्वी घटिकां गृहीत्वा गुरुणा सह विहृतवान् । ग्रामाद् बहिः पथद्वयी दृष्टा। तदानीं तत्र काचित् स्त्री कूपाज्जलभृतं घटं गृहीत्वा ग्राम प्रति व्यावर्तमानाऽऽसीत्। परिधानेन सा यवनिका भासते स्म । गुरुवरैः सा मार्गार्थ पृष्टा, तदा कुटिला सा महिला विरुद्धं मार्गमदर्शयत् । अनभिज्ञाः सरलमतयो गुरुवरास्तु तं मागं सम्यगवबुध्य विहृतवन्तः। सार्द्धत्रय किलोमीटर मितविहारो गुरुवरैस्तस्मिन् कण्टकबहुले पथिकृतः । पश्चात् कोऽपि पन्था एव नाऽदृश्यत। केवलाः कण्टकाः शुष्कगुल्माः पर्वतीयसीमान्तप्रदेशाश्चाऽवगम्यन्ते स्म। अपथप्रपन्नैर्गुरुवरैरपि 'तया वनितया मिथ्यावर्त्मदर्शितमि'ति शङ्कितम्। *न केवलं कच्छीयायामेतस्यां विहारयात्रायामेव, किन्तु तदनु यावज्जीवनं गुरुवराणामन्तेवासी स बालमुमुक्षुर्नाम पूज्यपादपरमशासनप्रभावका व्याकरण-साहित्य-न्यायतीर्थाचार्यप्रवराः श्रीमद्विजयसूर्योदयसूरीश्वराः, मदीया विद्वत्प्रवरा वात्सल्यवारिधिपरमगुरुवराः। नमानि तित्वं गुरुधर्मसूरिन्
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy