SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ महाय जीवनम्, भव्यो विरामः ५२ विद्वच्छिरोमणिकलिकालसर्वज्ञ श्री महेमचन्द्राचार्यकृत-त्रिषष्टिशलाकापुरुषचरित्रमध्ये शोभना श्लोकपङ्क्तिरस्ति- 'महात्मनां महद्धीनां, उत्सवा हि पदे पदे' इति । इयं पङ्क्तिः पूज्यगुरुवरजीवने नितरां सुचरितार्थाऽऽसीत् । अत एव तेषां जीवने केवला उत्सवा महोत्सवा एव न, किन्तु शासनप्रभावक महाकार्याणि अपि बहूनि जातानि आसन् । नैतावद्, तेषां जीवनयात्रा यथा महाप्रभावसम्पन्नाऽऽसीत्तथा तेषां जीवनविरामोऽपि महाप्रभावक आसीत् । तादृश्येव च भव्याऽऽसीद्- गुरुवरदेहविलयपश्वान्निर्गता तत्रभवतां महाप्रभावशालिनी अन्तिमयात्रा । वयमत्र 'चित्रम्' 'अहो' इत्युद्गारजनकं बाष्पजनकं च विश्वाभिलेखरूपमद्भुतमतिभव्यं चरममन्तिमयात्राप्रसं लेखिनीवायुयानेनावलोकयामः । २०३८ तमे वैक्रमीये वर्षे फाल्गुनशुक्लचतुर्दशीदिनमुखे ७.५५ इति वेलायां सत्यां सा विशालचरमयात्रा प्रारब्धा । तदानीमनेकेषां दुन्दुभिवादकमण्डलानां भजनीकमण्डलानां 'बोम्बे जैन स्वयंसेवकमण्डल' नामकवादित्रमण्डलीनां च गगनगामिवादित्ररवै: 'जय जय नन्दा, जय जय भद्दा' इति प्रचण्डघोषैश्च निखिलं वातावरणं शब्दमयमभवत् । तदानीं सर्वत्र निःसीमगुलाल चूर्णमुडीयमानमासीत् । 'मुम्बईसमाचार' सदृशं ख्यातिप्राप्तं वृत्तपत्रं यत्कृते लिखति स्म "भारतराष्ट्रस्यैव भव्येतिहासमध्य एव न, प्रत्युत जगत इतिहासे पदयात्रापूर्विका २१ किलोमीटर 'मिता विशाला चरमयात्रा कस्यचिदपि महापुरुषस्य निर्गता इति नमामि नित्यं गुरुधर्मसूरि ૨૦૭
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy