________________
प्रभातसूर्यास्तम्
"अद्यगगर्न कीदृशमभ्रविलिप्तं जातं गुरुवराः!जाने, विषादोऽनुभूयते।" बालमुनिना स्वीयगुरुवरा उक्ताः।
वैक्रमस्य २०३८ तमसंवत्सरस्य फाल्गुनमासीयशुक्लपक्षीयैकादश्याः, शनैश्चरस्य दिनम्, मुम्बईमहानगरीयं 'मझगाँव' इति विस्तारीयं 'प्रेमसागराख्यं चतुभूमिकं भवनम्, तस्य भवनस्य चतुर्थभूमिकायामेकार्थे जिनमन्दिरं द्वितीयाऽर्धेच सङ्घप्रतिश्रय आसीत् । (अद्यापि अस्ति।)
अनुमानतः समययन्त्रके सार्द्धदशवादने सति निजपाठग्रहणपश्चात् सबालमुनिरुच्चरितवान्प्रागुक्तशब्दान्।
तद्गुरुणा प्रतिध्वनितमिदम् - "जवाहरलालनहेरुवर्यो मृत्युमाप्तवाँस्तस्मिन् दिनेऽपि एतादृशमेव निरालोकं निमभं विषण्णं च वातावरणमासीत् । अत एवमनुभूयते नूनमद्य श्वो वा कस्यचिन्महतः प्रभावशालिमहानुभावस्य जीवनविरामो भविष्यति।"
ते प्रभावशालिमान्याः कदाचित् सम्मुखस्थिताः काष्ठपल्यके विराजमाना युगदिवाकरगुरुवराः स्वयं भविष्यन्तीति तु सोऽपि नाऽजानीत्तदानीम् । कलिकालसर्वज्ञभगवतां सानुभववचनमेवात्र चरितार्थं जातमिति प्रतिभाति यथा-'भाविकार्यानुसारेण वागुच्छलतिजल्पताम्।
निशायाँ ९.०० वादनवेलायां सत्यां यथासंवाद वातावरणं जातम् । गुरुवरस्वास्थ्यं सपदि परिवर्तनमाप्नोत्। ते त्यक्तसौख्याः सपीडाश्य सज्जाताः। रात्री १२.०० वादनं यावदर्य क्रमः स्थितः। तदनु पङ्घटिका यावद् गुरुवरस्वास्थ्यंस्थैर्यमाप्नोत् तदनन्तरंपुनश्चिन्ताप्रदमितस्ततस्तरलायमानंच सजातम्।
प्रभाते स्थितिरतिकठिना सजाता । गुरुवरान् परितः श्रमणा नमस्कारमहामन्त्रगानं कुर्वन्ति स्म। तेषां हृदयस्पन्दनानि अनियतानि आसन् । शनैः शनैश्चतुर्विधसङ्घः समागच्छत् । तन्मध्ये स्वयं नमस्कारजपं कुर्वन्तः पूर्णसमाधिगुरुवरा अपि अध्यात्मनिमग्ना आसन्, जाने ते मृत्यु सत्कर्तुंगच्छन्ति स्म।
नमामि नित्यं भगुरुधर्मसूरिम्
૨૦૨