________________
परमेश्वरं पूजयितुं गच्छेम अत्र चाऽतिनिकटस्थ जिनालये विराजितपरमेशस्य पर्यवेक्षणमपि विस्मरेम, तर्हि वयं जिनाऽनुयायिनः कीदृशा: ? मदीयेच्छा निश्चलाऽस्ति 'अस्माभिः प्रभुदर्शनार्थं निश्चयतो गन्तव्यमेव' इति ।"
तदनन्तरं श्रावकैर्गुरुणामन्तर्गता भावना शिरसाऽभिवन्दिता । यतो गुरोराज्ञा भवति सदैव शिवकरी अनुप्रवचनं भिल्लजनानग्रेकृत्य कतिपय श्रमणैः श्रमणोपासकै रक्षकैश्व सह गुरुवरा अरण्यं प्रति प्रस्थितवन्तः । अपराह्नेऽर्धघटिकाऽनन्तरं वनान्तरे नृत्यमण्डप - रङ्गमण्डपादिभिर्युतं शिखरसहितं भव्यं जिनमन्दिरं दृग्गोचरमभवत् । गुरुवरा निःसीमानन्दभाजः सञ्जाताः ।
सर्वे जिनमन्दिरं गताः। गर्भगृहान्त: ५१ इंच' मिता विशालकाया: प्रशमरसनिमग्नाः श्रीआदिनाथपरमेश्वरा विराजन्ते स्म । अन्येऽपि चत्वारो जिनेश्वरा अखण्डिता आसन्। मिल्लजनेष्विदं जिनमन्दिरं 'लाखामन्दिर' इति नाम्ना विख्यातमासीत् ।
दीर्घदृष्टियुता गुरुवराः सजलनेत्राभ्यां संसारनाशकारणपरमेशान् प्रणतवन्तः । तैः श्रावका उक्ताः - "जिनेश्वरा लक्षणैर्नूनं श्वेताम्बरीयाः सन्ति । अतोऽस्मत्कर्तव्यम् 'अस्मदीया भगवन्तो दिगम्बरवर्ग
शासकीयपुरातत्त्वविभागादिषु न गच्छेयुः, परमस्मदीयसङ्घे पुन: पूजनीया भवेयुरिति । " श्रावकैर्गुरुवचनमङ्गीकृतम् । अन्येद्युः प्रतिमास्थानान्तरकरणं निर्णीय सर्वेऽपि सङ्घनिवेशं प्रत्यायातवन्तः ।
अपरेद्युश्छ'री' पालकसङ्घ श्वोरीवाडग्रामं प्राप्तवान् । तत्र दिनद्वयस्थैर्य घोषितम् । अत्रान्तरे च प्रतिमास्थानान्तरं हिम्मतनगरसङ्घमध्ये कृतम्। प्रवरगुरूणां मानसं तदानीमानन्दयुगलेनोल्लसति स्म । प्राचीनप्रतिमारक्षणस्याऽऽनन्दः, इतश्व तत्पुनः प्रस्थापनस्याऽऽनन्दः ।
पूर्वप्रसङ्गोक्तानां त्रयाणां सद्गुणानामालम्बनेन गुरुवरसंस्तवं वयं तीर्थत्वेन कुर्महे, तेषु तृतीयगुणोऽस्ति 'रक्षकता' इति । प्रस्तुते प्रसङ्गे गुरुवरा अपि रक्षका ज्ञायन्ते ।
विपत्सम्भवेऽपि जिनशासनस्य त्रातारः आपदमुखे गत्वाऽपि प्राचीनजिनप्रतिमानां रक्षितार ईदृशा आचार्यप्रवरा वर्तमानयुगे विरलाः सन्ति । यद्यपीदृशी अवसरप्राप्तिरपि दुर्लभा । तं चाऽवसरं प्राप्य जीवनस्यैव न, अपि तु जिनशासनस्य सुखदस्मृतिस्वरूपमेतादृशं रक्षणकार्यं तु दुर्लभतरं नूनम् ।
अद्य मम मानसवासिगुरुवरांस्तु प्रणस्याम्येव । किन्तु विशेषेण यत्र प्रभुभक्तिरक्षणभावना निर्विकल्पेनाऽऽविर्भूता, तद् हृदयमपि नतशीर्षेण प्रणमन् कथयामि नमोऽस्तु तस्मै तव मानसाय' इति ।
0.0.
२०१