________________
बमोऽस्तु तस्मतवमानसाय
"महाराज! अन्त:काननं मध्येगुल्मंयुष्माकं जैनानांएक विशालं मन्दिरं विद्यते। अद्यापि तन्मन्दिरमविच्छिन्नमस्ति। युष्मदीया परमेश्वरा अपि तत्र विद्यन्ते। क्वचिद् वन्या: पशवोऽपि तत्र दृश्यन्ते । अस्माकं विना केऽपि न जानन्ति रहस्यमिदम्। आगच्छत तत्र, युष्मदीयपरमेशांश्च पश्यता" अर्धहिन्दीभाषायां कैश्चिददृष्टपूर्वजनैर्वनवासिमिर्मिल्लजनैः सहसाऽऽगत्योक्तमिदम्।
फाल्गुनकृष्णाऽग्रिमा सा तिथि:। तस्मिन् दिने पूज्ययुगदिवाकरगुरुवरा हिम्मतनगरत: केशरियाजीतीर्थस्य, पुनः केशरियाजीतीर्थतो हिम्मतनगरस्य २८ दिवसीय - छरी पालकपदयात्रासयेन सह ग्रामानुग्रामं विहरमाणा आभापुराख्यं ग्राम समागताः। माध्यानिकप्रवचनसमये सजाते केचिद् वनवासिन आदिवासिभिल्लजना आगत्य वार्तालापमिमं कृतवन्तः।
प्रभुभक्तगुरुवराणामन्त:करणे श्रुत्वेदं प्रबल उत्साह उद्भूतः । तत्रभवद्भिः श्रमणोपासका आहूता ज्ञापिताश्च"अस्माभिर्जिनालयो निरीक्षितव्यः । वयं जिनेश्वराणामनुयायिनः स्मः, अतोऽपि परमेश्वराणां स्थितेर्दशनमस्माभिर्नेनं कर्तव्यमेव।"
श्रावकै: स्वाभिप्राय: प्रकटीकृत:- "गुरुदेव! इसे प्रत्यवरा अरण्यचराः सन्ति। किंविधस्तत्प्रत्ययः? गहनं गहनं नीत्वा कदाचित् प्रत्यवस्कन्दं कृत्वा ते लुण्टनस्य जीवनस्य वा प्रत्यवायकारका भवेयुस्तर्हि किं भवेत् ? तस्मादयं विचारो नूनमनुचित: प्रतिभाति।"
परं गुरुवरा ईदृशीषु नैराश्यपूर्णवार्तासु सर्वथा नीरसा आसन्। तै: श्रावकेभ्य: स्वनिर्णयो ज्ञापित: - "इमे भिल्लजनाश्छलमाश्रयेयुरीदृशानाऽवभासन्ते। ईदृशेन विशालेनपदयात्रासङ्घन सह वयं नैकदिनैः पदयात्रां कुर्वन्तो दूरस्थं
मामि विशत्वं गुरुधर्मसूरिम्
१९९