________________
ज्ञानयज्ञोद्दीपका गुरुवराः
परमतारक-त्रिभुवनपति-तीर्थकृत्-परमात्मश्रीमदजितनाथप्रभोः स्तवने (गुणकीर्तने) 'श्रीमदानन्दघन' इत्याख्यो योगिजन: 'वस्तु विचारे रे दिव्यनयन तणो रे, विरह पड्यो निरधार 'इत्युक्त्या सम्यग्ज्ञानं दिव्यनेत्रस्योपमयाऽन्वितं कृतवान्।
सज्ज्ञानचक्षुष एतादृशा दिव्यचक्षुष: सन्ति, यैः पदार्थस्य प्राप्यते पूर्णबोधः। ऐहिकपदार्थानां तात्त्विकस्वरूपस्याऽऽत्मनश्च तात्त्विकस्वरूपस्य प्राप्यते सद्बोधः। यावदमुष्य दिव्यचक्षुषः सम्प्राप्तिर्न भवति, तावदज्ञतया सीमातीतगुणसमृद्धेरधीशोऽपि देही क्लेशं प्राप्नोति । परमपदंप्रतितस्य प्रगतिरेतच्चक्षुर्विरहे नाममात्राऽपिन भवति।
अत एव महोपकारिणां भगवतां श्रीजिनेश्वराणां शासने सज्ज्ञानप्राप्तेर्माहात्म्यं पदे पदे कथितम् । किं कारणं तस्मिन् ? इदमेव यदागच्छभिर्ज्ञान : स्वयमेव सद्बोथो वर्धते । सुबोधश्च वर्धते तदा व्यवहार-विचिन्तनेषु वैशद्यं वर्धते, तेन चाऽक्षयपदं प्रति जीव: प्रगतिवान् भवति । अनेन कारणेनैव तु प्रत्येको नूतनदीक्षित आत्माऽपि संयमग्रहणदिनादेव गुर्वाज्ञापूर्वकं ज्ञानसाधनालीनो भवति।
आयुषष्षोडशे वर्षे चारित्रं गृहीत्वा भाईचन्दकुमारात् 'पूज्यमुनिश्रीधर्मविजय' इति नामधारका ते मुनिवरा अपि स्वजीवनेऽध्ययनस्य प्राशां प्राजनयन् । वयं तेषां तद् विस्मयजनकं ज्ञानाध्वरमंशमात्रमेवाऽत्रावलोकयामः । __संयमजीवनस्य प्रारम्भतो दशवर्षाणि यावत्पूज्यगुरुवर्याः प्रतिदिनं दिवसस्य षष्टिघटिकामध्यात्, त्रिंशद्घटिका
पर्यन्तमध्ययनेष्वेकाग्रचित्ता आसन्।
नमामि नित्वं गुरुधर्मसूरिन्