SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रौढविदुषामर्हस्तात्त्विकैः प्रवचनैस्तु जनमानसं शब्दशो मन्त्रमुग्धं सञ्जातम् । विविधतपश्चर्या प्रवचनाऽनुष्ठानादिभिश्चत्वारो मासा आराधनामया जाताः । चतुर्मासावसाने पूज्यपादगुरुवराणां पवित्रप्रेरणया सङ्घस्यश्रीशान्तिनाथपरमात्मनो महाजिनालयस्य नवनिर्माणं निर्णीतम् । एतस्मै कार्याय वढवाणनगरीया दातारों गुरुदेवैः प्रेरिताः । त्वरितं जिनालयनिर्माणार्थं लक्षरूप्यकमितं दानं पुण्यवद्भिर्दातृभिरुद्घोषितम् । आङ्ग्लभाषीयस्याभाणकस्य स्मरणं भवत्यत्र Well begun is half done' इति । भावार्थोऽयं यद् कार्यस्य शुभ आरम्भः, कार्याधं सम्पन्नमिति • ज्ञेयम् । गुरुवराणां शासनकार्यरतं रम्यं जीवनं ज्ञात्वाऽहमस्मिन्नाभाणके मनाक् परिवर्तनाय लालसोऽस्मि 'Well begun is full done' इति । तस्य भावार्थोऽयम् महापुरुषा यदि शुभमारभन्ते तर्हि तत्कार्यमर्धपूर्ण न, नवरं पूर्णमेव भवति । अत्राऽपि एवमेव सञ्जातम् । एतज्जिनालयनिर्माण सम्बन्धिनी सर्वा व्यवस्था तस्मिन्नेव चतुर्मासे पूज्यगुरुवरप्रेरणया सम्पन्ना। पूज्यपादगुरुवराणां समुज्ज्वलशासनकार्य परम्पराया इदमासीन्मङ्गलाचरणम्। अत्रैकस्याः संस्कृतसूक्तेः स्मरणं भवति'स्त्रीणां चरितं पुरुषस्य भाग्यं, देवो न जानाति कुतो मनुष्यः ?' इति । जन्मभूमिमध्ये समुज्ज्वलकार्यसन्ततेर्मङ्गलाचरणकर्तृगुरुवराणां मनसि तस्मिन् समये कल्पनाऽपि नाऽऽसीद् यदतः परमेतादृशानां जिनालयनवनिर्माण प्रतिष्ठादिनैकविधशासनप्रभावकधर्मकार्याणां परम्पराऽविरता भविष्यतीति । wagen
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy