________________
सर्व हिमहांमहत्
महागुणा जनाः कुत्रचिदपि निवसन्ति, तथाऽपि ते धूपशलाकावद् धर्मस्यामोद प्रसारयन्ति सर्वत्र। दीपकवद् धर्मस्यालोकं वितन्वते सुदूरम्। कुसुमवच्च केवलं स्वस्यैव न, अपितु धर्मोपदेशकार्य: परिमलयन्ति परेषामपिजीवनम्। तेषां कृते किञ्चिदपि नाऽशक्यम्। यतस्ते सन्ति महापुरुषाः। एतादृशेषु महापुरुषेष्वेकतमा आसन् पुण्यनामधेया गुरुवराः पूज्यपादयुगदिवाकराचार्यदेवश्रीमद्विजयधर्मसूरीश्वराः।
जीवनमध्ये बहूनि कार्याणि तत्रभवद्भिः कृतानि, यैर्गुरुवरा अस्माभिधूपवद् दीपवद् कुसुमवच्चानुभूयेरन्। महत्सु तेषु केषुचित् कार्येषु गुरुवराणां निरन्तरं सान्निध्यमपि न प्राप्तम्। परं केवलं तेषां वचनलब्ध्या कृपादृष्ट्या च तानि महान्ति कार्याण्यपि सुकराणिजातानि।
तत्र स्मृतिविषयं भवति महाराष्ट्र-भाईन्दरनगरीयं देवयानसदृशं ५२ जिनालयतीर्थम् । विक्रमसंवत् २०२३ तमस्य वर्षस्य माघमासीया काचिल्लावण्यमयी सन्ध्या। माटुंगा-जीवनअबजीज्ञानमन्दिरोपाश्रयान्तः ५२ जिनायतनस्य निर्माणाय गुरुवरैर्देवचन्दश्रेष्ठी प्रेरितः। गुरुवचनं तेन चातकवद् गृहीतम्, परमेकं भयस्थानं दर्शितम् - "गुरुदेव! मत्समीपे स्थानमभिरामं विद्यते। ५२ जिनालयसर्जनं तत्र सुशक्यम्। किन्तु, अरण्यसदृशे तत्स्थले परमात्मपूजां के करिष्यन्ति? इदानीं तु तत्र नास्ति कश्चिदपि पूजकः।" भाविनं समयं पश्यद्भिरिव गुरुदेवैः प्रत्युक्तम् - "श्रेष्ठिवर्य! मा चिन्तय। पूजकानामुपासकानां च तत्र पङ्क्तयो भविष्यन्ति। केवलं कार्य शोभनं सम्पादनीयम्।
गुरुवरप्रेरणाप्रभावतः परःसहस्रलोकानां श्रद्धास्थानं महाराष्ट्रराज्ये सर्वप्रथमं निर्मितं ५२ जिनमन्दिरं सम्प्रति २८ वर्षेषु व्यतीतेषु सत्सु देवविमानसदृशं विराजतेतमाम्। एतादृशानि महान्ति कार्याणि कदाचिदद्यापि भवन्ति। परं,
| जामामि नित्यं मनुधर्मसूरिन्