SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशतिवगा श्रीवीरनिर्वाण-शताब्दीमहामहोत्सवः महात्सवः४८ चरमतीर्थपति-परमतारकपरमात्मश्रीमहावीरस्वामिनः पञ्चविंशतितम्यां निर्वाणशताब्द्यां तेषामासन्नोपकारिणां भगवतां निर्वाणशताब्दीमहामहोत्सवो भारतवर्षीयजैनसवाङ्गणे समुपस्थितः। पूज्यगुरुवराणां जीवने तेषां पवित्रप्रेरणासानिध्यबलेन सजातेष्वनुत्तरेषु शासनप्रभावक कार्येष्वन्यतमं महाप्रभावक कार्यमेतद् निर्वाणशताब्दीमहोत्सवस्वरूपम्। अस्मिन् शताब्दीमहोत्सवप्रसङ्गे पूज्ययुगदिवाकराचार्यदेवश्रीमद्विजयधर्मसूरीश्वराणां सबलनेतृत्वपुण्यप्रभावादिगुणान्जैनजनता ज्ञातवती। केन्द्रीयशासनायोजितस्यास्य महामहोत्सवस्य विरोधे कैश्चित् काल्पनिककारणैः कतिपयनमणादिवर्गण विरोधमहावात: सृष्टः । अनेन महावातेनाऽकम्पिता गुरुवरान मीताः । परं निश्चलतासमताभ्यां सस्मितानना: सजाताः । एतान् निर्भयगुरुवरान् दृष्ट्वास्मरणस्य गगनएको रुचिर:सुभाषितविहग उड्डयते, तथाहि विरम विरसायासादस्मादुरध्यवसायतो, विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे। अयि जहमते ! कल्पापाये व्यपेतनिजक्रमा:, कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ।। गुरुवरा अपि एततुल्या महापुरुषा एवाऽऽसन् । अतो विरोधमहावातेनाऽपि किम् ? विरोधमहावातस्तत्कृतेऽकिञ्चित्कर एव जातः । अन्येषु नगरेषु विरोधकरैर्यत्किञ्चित्साफल्यमपि प्राप्तम्। किन्तु, मुम्बईमहानगरेतु विरोधेग्रेसरस्तेषामग्रिम आचार्य: स्वयमासीत्।तथाऽपिपरोलक्षसंख्यकामुम्बईनिवासिजैनागुरुवरैः सार्द्धमेव स्थितवन्तः। जिनशासनधर्मध्वजंदिगन्ते प्रस्फुरायमाणस्य भव्यमहामहोत्सवस्येमाः सन्ति कतिपयास्तत्त्वपूर्णा वार्ता: (१) २५ तमशताब्दीमहोत्सववर्षप्रारम्भदिनमासीत् आश्विनमासीयाऽमावस्या (दीपावलीपर्व)। अस्मिन् दिने गुरुवरप्रेरणयाप्रत्येकसधेषुसमूहलोगस्ससूत्रजप-समूहछट्टतपः-समूहआचाम्लतप प्रभृतिसाधनाऽऽराधनाचगणनातीताजाता। (२) कार्तिकशुक्लद्वितीयादिवसेऽभूतपूर्वा विशालतमा निर्वाण-कल्याणकमहारथयात्रा 'भातबझार' इति स्थलत: प्रारब्धा। नामानि नित्यं गुरुधर्मसूरिम् १९१
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy