________________
विश्वशान्थारायबापर्व
तीर्थम्। तस्य विवरणं पृथगपृथग्विवक्षया भवितुमर्हति । प्रत्येकविवक्षया सह गुरुवरसमन्वयोऽपिसौकर्येण भवितुमर्हति।
'नौरिव भवादुद्धरेत् (तारकं भवेत्) तत्तीर्थम् । अनया व्याख्यया गुरुवरा अपि तीर्थरूपा आसन् । अनेकेषां अमणानां श्रमणोपासकानां च ते तारका आसन्, प्रागुक्तजनेतरमहानुभावहसनअलीनूरमहम्मदसदृशानामपि तारका आसन् । केषाञ्चिन्निस्तारस्तत्रभवद्भिर्भवाम्भोधेः कृतः संयमप्रदानेन । केचिच्च जनास्तत्रभवभिर्दुर्गुणकर्दमादुद्धताः। समासेन तृणाऽरणिमणिन्यायेन सर्वेषां निस्तारकत्वाद्गुरुवरा आसंस्तीर्थतुल्याः।
शास्त्रेषु तीर्थ द्विविधं वर्णितम् - (१) जगमतीर्थम् (२) स्थावरतीर्थमिति । अनयोस्तीर्थान्तशब्दयोर्विवरणं प्रसिद्धम् श्रामण्यग्रहणानन्तरं गुरुवरा अपि प्रस्तुतव्याख्याऽन्तर्गता जङ्गमतीर्थरूपा आसन्।
'त्रिवेणीसङ्गमनाम तीर्थम्' चेति गतप्रसङ्गोक्तव्याख्यानुसारेण तत्रभवत्सु शासनाराधनारक्षाप्रभावनारूपसद्गुणानां त्रयाणां सङ्गतत्वाद् गुरुवरा आसँस्तीर्थसमाः। अस्माभिराराधका गुरुवरा पूर्वप्रबन्धे दृष्टाः, अथ शासनप्नभावका गुरुवरा दृष्टव्याः। यद्यपि, अनेकप्रभावकशासनकार्यशृङ्खला नाम गुरुदेवजीवनम् । तेषां प्रभावकताया यथार्थं वर्णनमन्त्र नास्ति शक्यम् । अतो वयमिह केवलं द्वौ महाशासनप्रभावकप्रसङ्गौ स्मरेम।
एतयोमहाप्रभावकप्रसङ्गयोः सर्वप्रथममस्ति विश्वशान्ति-आराधनापर्व । स प्रसङ्ग २०१८ तमे वैक्रमसंवत्सरे पौषमासे प्रवृत्तः। तदा गगनेऽष्टग्रहमहायुतिर्भवित्री आसीत्। तया युत्या सम्भाव्यदुष्टप्रभावविषये दैवर्जनेषु महातङ्कः प्रसारितः । फलतो वृत्तपत्राणि प्रत्यहमष्टग्रहयुतेः सम्भाव्यमानघातकपरिणामवार्ताभिस्तन्निरोधकोपायवार्ताभिश्च
नमामि नित्यं मरुधर्मसूरिन्
१८७