________________
४५
"गुरुदेव ! श्वः प्रवचनमहं करिष्यामि । अत्रभवद्भिः श्वस्तनीये प्रवचने यथासमयमागन्तव्यमेव । अहं प्रवचनविवक्षुरस्मि भवदीयनिश्रायामेव । "-अयमासीदेकेन लघुना नवदीक्षितबालमुनिनाऽन्तरङ्गकल्लोलेन कृतोऽनुनयः ।
बालतरोरुत्सेक्तारः पालयितास्थ्चोद्यानपालाः
उपासीनैः प्रसन्नैर्गुरुवरैर्हर्षपुरस्सरं 'साधु' इत्युक्त्वा प्रस्ताव उररीकृतः । अतिहर्षितः प्राप्ताऽनुमतिर्बालमुनिर्वन्दनं कृत्वा स्वस्थानमयात् । हृदयबहुमानपूर्वं तथाऽपि अधिकारपूर्वं ये विज्ञप्तास्ते गुरुवरा आसन्नाराध्यपाद्गुरुवराः श्रीमद्विजयधर्मसूरीश्वराः । वैक्रमसंवत्सरस्य २०३५ तमस्य चातुर्मासिकः समयः । पर्वाधिराजपर्युषणामहापर्वागमनं चाऽप्यभूत् । पर्वाधीशस्य प्राथमिकदिनानि व्यतीयमानानि आसन् । तत्रान्तरे पञ्चकर्तव्यानां विवरणेषु अन्यतमस्य क्षमापनाकर्तव्यस्य विवेचनप्रस्तावे गुरुणा स बालमुनिरेकलघुवक्तव्यार्थं सन्नेहे । अस्मिन् वक्तव्ये मिथ्या 'मिच्छामि दुक्कडं' कारकयोः क्षुल्लकमुनिकुलालयोः शास्त्रीयमाख्यानकमपि आसीत् ।
दीक्षाजीवनस्य प्रथमं वर्षम्। तत्रापि सर्वप्रथमं प्रवचनम् । अतो बालमुनिः प्रकृत्यैव काहलमुत्सहते स्म । परमोत्साहात् तेन प्राग्दिने सायाह्ने पूज्यपादगुरुवराः पूर्वोक्तरीत्या विज्ञप्ताः ।
गुरुवरा अपि यथावेलं प्रवचने बालमुनेरुत्साहादाजग्मुः । तत्रभवद्भिस्तत्र सभायां बालश्रमणस्य तद्वक्तव्यं श्रुतम्, सायाह्ने बालमुनिः पुनः गुरुवरं वन्दितुमगच्छत्, तदा गुरुवराः सकृत् पुनस्तद् वक्तव्यं श्रुतवन्तः, कुम्भकारस्य च कथानकपश्चान्मुक्तहास्या अभूवन् । बालमुनेः प्रोत्साहनाय गुरुवरैरेतत्कृतम्।
| नमामि नित्यं गुरुधर्मसूरि
१७९