SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ समञ्चलकासन्यरोगईगलाचरणम main पूज्यपादगुरवराः स्वीयजन्मभूमिवढवाणग्रामे समागताः। स्वग्रामीयमहादीप्तिमतस्तारकस्य स्वागताय बढवाणसघोऽतीवातुरो बभूव । वैक्रमीये १९९८ तमे वर्षे प्रवृत्त एष प्रसङ्गः । ग्रीष्मदिनानि प्रवर्तमानान्यासन्। वृत्तमेवं घटितम्-पूज्यपादगुरुदेवानां स्थैर्य तेषां परमगुरुदेवैः पूज्यचरणाब्जश्रीमद्विजयमोहनसूरीश्वरैः सह तीर्थाधिराजश्रीशनुञ्जयगिरेरड्के पादलिप्तपुरनगर आसीत्, तन्मध्ये वढवाणसङ्घीया अग्रेसरा पादलिप्तपुरमागताः। वढवाणनगरे च गुरूणां चतुर्मासाय तैः परमगुरवोऽतिविज्ञप्ताः। गुरुवरैः तेषामनुनयोऽनङ्गीवृत्तः, अतस्तैर्दश दिनानि यावद् गुरुस्थिरतालाभोऽतिशयानुनयपूर्व याचितः। परमगुरुदेवैरूरीकृता सङ्घभावना, तदनन्तरं यदा राजकोटनगरं प्रति परमगुरुवराणां विहार आरब्धः, तदा वढवाणनगरे दश दिनानि यावत् स्थैर्यार्थ पूज्यगुरवोऽनुशिष्टाः। परमगुर्वाज्ञां शिरसा स्वीकृत्य तत्रभवन्तः स्वजन्मभूमि समागच्छन् । सधेन सोत्साहं गुरुदेवस्वागतं कृतम्। पश्चात्तु जलघरचातकवच्छशधरचकोरवच्चाऽन्वहं गुरुदेवप्रवचनानि श्रुत्वा सङ्घसमुल्लासो विस्तीर्णो निःसीमो जातः। फलतः 'अथ विहारो नाऽस्ति शक्यः.... इदं चतुर्मासं त्वत्रैव कर्तव्यम्....' इति भावना प्रार्थना च प्रबला प्रसृता । गुरुवरास्तुतदानीमतिमुग्धाः । इतः सयाग्रण्यः स्वयं परमगुरुदेवसमीपं गतवन्तः। ते वढवाणग्रामसङ्घस्य भावना प्रदर्शितवन्तः, चतुर्मासाय चाऽऽज्ञापत्रं याचितवन्तः। सङ्घस्य विज्ञप्ति स्वीकृत्य परमगुरुवरैरपि आज्ञापत्रं प्रदत्तम्।। संयमजीवनस्य 22 वर्षीयगुरुकुलवासाऽनन्तरं गुरुवराणां सर्वप्रथमोऽयं स्वायत्तचतुर्मासयोगः। तत्रभवन्त एकलव्य इव गुरुकृपाया अवलम्बनेन तच्यतुर्मासं जन्मधरायां कृतवन्तः। भगवतीसूत्रमहागमानुगतैस्तत्रभवतां नामानि नित्वं गुरुधर्मसूरिन्
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy