________________
देशकाला-बिष्यातचिकित्सका।
४४
एकदा कस्यचिन्नृपस्य राजसभायामपराधिनः खलास्त्रय आरक्षकैरानीताः। त्रयो दोषभाजस्तुल्यदोषा आसन् । अतः संसज्जनैर्मनसि चिन्तितं सहजम् - 'राजा त्रीनपि आगस्कृतः समानमनुशासिष्यतीति।'
परम्... आश्चर्यम् ! नरपतिनैकोऽपराधी सभायां केवलं गर्हित्या मुक्तः। द्वितीयः सन्ध्यापर्यन्तमवरुध्य कारागारे प्रक्षिप्तः पश्चाच्च विमुक्तः। तृतीयं चाऽसितवणैर्मुखलेपं कारयित्वा राजा रासभस्योपरि पृष्ठमुखमुपावेशयत्, स्वानुचरैश्च समस्तायां नगयाँ त्रपाजनयित्री तस्य गर्दभयात्रा कारितवान्।
राजसभासदो विस्मितवन्तः - 'एतादृशो न्यायप्रियो राजाऽपीदृशः पक्षपाती भवेत् ? एतेषामपराधः समानस्तथाऽपि एकः क्षुद्रशिक्षार्होऽपरौ तु कठोरशिक्षाऽहाँ कथं सजातौ? इति।' अतः कारणजिज्ञासुभिस्तै राजा पृष्टः-"नरपाल!को हेतुरस्ति विभिन्नशिक्षायामस्याम् ? कृपया ज्ञापयतु।" इति।
राजा प्रतिभाषितवान् - "भोः! मया त्रयाणामपि समाचारमानेतुं महामात्यः प्रेषितोऽस्ति । ते त्रयोऽपि अपराधिनो सभाया गताः, तदनु किं सजातमिति महामात्यसमाचारेणाऽवगमिष्यथ तदा निःसंशया भविष्यथ" इति।
अन्येयू राजसभायां नृपस्याज्ञया मन्त्रिणा कथितम् - "महाराज! अतिक्षुद्रां शिक्षा प्राप्तवान् पातकी
नमामि नित्यं गुरुधर्मसूरिन्
१७३