SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ साधर्मिकाणां सन्तापः समग्रजैनसोभ्यो लज्जाप्रदोऽस्ति।" ईदशाननेक- स्वानुभवान प्रस्तुय साधर्मिकाणामुत्कर्षाय गुरुवरा उत्कटपरिश्रमाः सज्जाताः। साधर्मिककृते प्राथमिकशाला-व्यायामशाला-चिकित्सालयादिभिः संयुतायाः, जिनालय-प्रतिश्रय-पाठशालादिभिः परिमण्डितायाः. शतचतुष्ट्यमिताः शतपञ्चकमिता वा साधर्मिकपरिवारा अल्पभाटकेन निवासाय शक्नुयुरेतादृश्याः 'जैन कोलोनी' इति संस्थाया निर्माणविचारणा अपि जाता । तत्कृते सम्पूर्णार्थिकप्रश्नस्य निराकरणं गुरुवरैः स्वयं दर्शितम्। तथा च विक्रमसंवत् २०१६ समस्य बालकेश्वरचतुर्मासे तत्रभवतां प्रेरणयाऽऽश्विनमासीये धवलपक्षीये दशमीदिने संस्थापितेन बालकेम्वर-जैन-उद्योगगृहेण नैके मध्यमवर्गीयजैनसाधर्मिकजना उत्तममालम्बनं प्राप्तवन्त आसन्। सा संस्था अद्यापि नामान्तरेण प्रवर्तमानाऽस्ति। सस्मिन् समये गुरुवरप्रेरणया प्रतिवर्ष नैकसहस्राणां (अन्त्यवर्षेषु तु लक्षाणां) रूप्यकाणां दानानि साधर्मिकेभ्यः प्रत्यक्षेण परोक्षेण वा दीयन्ते गीतं, तत्साधर्मिकभक्तेरर्थः केवलं सङ्घसाधर्मिकवात्सल्यरूपेणैव समर्यादो भवेदिति गुरुवराणामीषदपि अभिप्रेतं नाऽऽसीत | प्रत्यत. तद्व्याख्या पीडितसाधर्मिकाणां निवास-भोजन-शिक्षण-औषधोपचारादिव्यापकतया भवेदितीष्टमासीत्। यद्यपि तत्रभवन्तो गीतार्थयुगदर्शिगुरुवरा आसन् । सत एतादृशकार्याभिमुखे नेत्रे निमील्य विरोधवाताल्याः स्रष्ट्रनुपेक्ष्य स्वस्थसन्तुलितविचारधारां चोररीकृत्य शासनमार्ग संरक्ष्य साधर्मिकभक्तेः पुरस्कर्ता ते गुरुवरा आसन् । अत एव तु तत्रभवद्भिः 'सेवासमाज' मासिकपत्र ईदृशं गीतार्थतापूतमालेखनं गुर्जरभाषायां कृतम्-"(१) सप्तसु क्षेत्रेषु येऽग्रिमा सन्ति तत्प्रति सदैवोच्चस्तरां पूज्यभावो रक्षणीयः। अग्रगण्यक्षेत्रेषु समर्पितं द्रव्यमननिमक्षेत्रेषुपयोक्तुं विचारोऽपि म कर्तव्यः । (२) अग्रिमक्षेत्राणि अनग्रिमक्षेत्राऽपेक्षयाऽनुत्तमानि, तथाऽपि प्रत्येकक्षेत्राणि स्वस्थानेषूत्तमानि सन्ति तन्नित्यं स्मर्तव्यम् (३) अवसरे पीडितक्षेत्राणां पोषणार्थं विवेको रक्षणीयः । (४) यूयं जिनभक्तिप्रभृतिषु रसिकतरा स्यात, तर्हि काम युष्मदीयायां तस्यां मङ्गलमयप्रवृत्त्यामुद्यता भवेत । पर, यूयं यद्रव्यमुपयोक्तुमिच्छेत तस्मान्मनागपि पीडितक्षेत्रेभ्योऽवश्यंदातव्यम्।" शासनप्रीतेः साधर्मिकप्रीतेश्चोभयो दः कीदृशो गुञ्जायमानो भवति लेखेऽस्मिन् ? यद्यपि, साधर्मिकप्रीतिरपि अन्ततस्तु शासनप्रीतेराविष्कार करोति नूनम् । यत्साधर्मिकभक्तेमाहात्म्यं 'पर्युषणाऽष्टाहिनका ग्रन्थमध्ये 'एगत्थ सबधम्मा, एगत्थ साहम्मिआण वच्छल्लं । बुद्धितुलाए तलिआ, दो वि अतुल्लाई भणिआई। ईदृशेनाऽभिरामेण लोकेन
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy