________________
संवेदनायुतं हृदयम्
"हैयुं पीगळावे एवी एक धर्मप्रेमी भाईनी वात..." विक्रमसंवत् २०१९ तमे वर्षे सेवासमाज' इति मासिकपत्रस्य दीपोत्सवाके उक्तशीर्षकयुते हृदयवेधके लेखे पूज्यपादगुरुवराः स्वयमेकं हृदयस्पर्शिप्रसङ्ग प्रस्तुतवन्तः। साधर्मिकाणां मनोवेदनायाः पूज्यपादप्रवराणां च तत्प्रति संवेदनायाः शब्दशो दर्शक एष प्रसङ्गो गुरुवरेण गुर्जरभाषायां यादृशो व्यावर्णितस्तादृश एवाऽत्रसंस्कृते दर्श्यते
"अधुना कश्चिद् धर्मी जैनबान्धवो मत्समीपमागतवान्, निजगृहे च पादन्यासं कर्तुमनुनयं कृतवान् । मया पृष्टम् - 'क्व वससि?'
तेन कथितम् - 'सेनेटेरियमगृहे वसामि' (सेनेटेरियमनाम संस्थाकीयं भाटकीयं वा लघुगृहम्)। आधिक्ये तेन कथितम् - 'गुरुदेव ! अधुना द्विचतुरैर्दिनैर्भवानागच्छेत्तर्हि साधु, यतःपञ्चषदिवसर्मया स्थानं रिक्तीकर्तव्यम्।"
अहं पृष्टवान् - भ्रातः! नास्तितव स्वकीय गृहम् ?
स उत्तरं दत्तवान् - "गुरुदेव ! एकखण्डीयलघुग्रहार्थेऽपि पञ्चसहस्राणां रूप्यकाणां मूल्य प्रतिमासं च ४० रूप्यकाणां भाटकम् । सार्द्धद्विशतरूप्यकाणां मम वेतनम् गृहे षण्णां सदस्यानां परिवारः, एकः पुत्रो महाविद्यालये पठति । अत एतावन्तिरूप्यकाणिदातुंकथं शक्नोमि?,
एतस्य भ्रातुः कष्टमयंजीवनं श्रुत्वामम हृदि बह्वी अर्तिरभवत्। किञ्चिद् विधम्यमया पुनःपृष्टम् - 'स्थानं रिक्तीकृत्य क्व गमिष्यसि ?'
हस्तौ संयुज्य तेन सपीडमुक्तम् - 'अन्यस्मिन् कस्मिंश्चित् सेनेटेरियमे स्थान प्राप्तुं प्रयत्नं करोमि । स्थान प्राप्स्यते तर्हि मासदर्य तत्र यापयिष्यामः। अन्तिमद्वादशमासा एवंविधा एव व्यतीताः। एषां कष्टानामवसानं कदा भविष्यति,तत्तु परमेशएव ज्ञातुं शक्नोति।' इदं श्रुत्वाऽहं सबाष्पो जातो हृदयं च वेदनया भृतम् । एतादृश एक एव न, अपि त्वनेके परिवाराः सन्ति । ईदृशाना
| नमामि नित्वं मरुधर्मसूरिन्